________________
अ. पा. २ सू. २१ ]
अणुभाष्यम् ।
३३०
ज्ञानमार्गाद्योगमार्गों हि भिन्नः । तथा च योगिनमुद्दिश्यैव कालविशेषस्य गतिविशेषहेतुत्वं स्मर्यते नतु ज्ञानमार्गीयस्य श्रौतस्य । इतरनिरपेक्षत्वात् । न च योगसांख्ये अपि श्रौते एवेति वाच्यम् । यतः स्मार्ते एते । चो हेत्वर्थे । एते योगसांख्ये- अग्निर्ज्योतिः । धूमो रात्रिः । ५ (भ.गी. ८/२४, २५ ) इति वाक्यद्वयोक्तगती वा । इदं तु श्रुत्युक्तदेवयानपितृयाणातिरिक्तमार्गमभिप्रेत्य समाहितम् । ते एव चेदत्राप्युच्येते शब्दभेदेन तदा न विरोधः ॥४|२|२१|७॥
1
इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाष्ये चतुर्थाध्यायस्य द्वितीयः पादः ॥ ४२ ॥
अथ चतुर्थाध्याये तृतीयः पादः ।
१ अर्चिराद्यधिकरणम् | अर्चिरादिना तत्प्रथितेः ॥४|३|१ ॥
१०
ननु ज्ञानमार्गीयस्येव मर्यादामार्गीयभक्तस्याप्यर्चिरादिमार्गेणैव गमनम् । उत सद्योमुक्तिरेव भवतीति संशयः । तत्र यथा ज्ञानिनो नियमा१५ भावस्तथात्रापीति प्राप्त आह । अर्चिरादिमार्गेण तस्य ज्ञानमार्गीयस्यैवोत्कर्षकथनात् स एव तेन मार्गेण गच्छति न तु भक्तोपीत्यर्थः । तथाहि । पञ्चाग्निविद्याप्रकरणे - तद्य इत्थं विदुर्ये चेमेरण्ये श्रद्धा तप इत्युपासते तेर्चिषमभिसंभवन्त्यर्चिषोहरहरापूर्यमाणपक्षम् (छां. ५/१०/१) इत्यत्रोपक्रमे भक्तातिरिक्तानेवाधिकृत्य तथा गतिरुच्यते । स्मृतावपि - ३. अग्निर्ज्योतिरहः शुक्लः (भ.गी. ८/२४ ) इत्यत्र ब्रह्मविदो जना इति वचनेन ज्ञानमार्गीयस्यैव स पन्था इत्युच्यते । अथेदं चिन्त्यते । सामोपनिषत्सु पठ्यते । अथ या एता हृदयस्य नाडयस्ताः पिङ्गलस्याणि - म्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गलः ( छां. ८/६ | १ ) इत्युपक्रम्यादित्यरूपस्य पिङ्गलस्य रश्मिरूपत्वं नाडीना
I