________________
३२९
७ निश्यधिकरणम् । [म.पा. २ सू. २१ पूर्वमादित्यत्वेनोक्तस्य पिङ्गलस्य रश्मिभिरूभंक्रमणं च तथा। अत्र संशयः । ओकोग्रज्वलनादेरितरसाधारण्येपि यथा हार्दानुग्रहाद्विलक्षणा गतिर्विदुष उक्ता तथा रश्म्यनुसारित्वमपीतरसाधारणमुतास्मिन्नेवेति । तत्रावधारणमाह । रश्म्यनुसारी निष्कामत्ययमेवेति ॥ ४।२।१८॥ ६ ॥
७निश्यधिकरणम् । निशि नेति चेन संबन्धस्य यावदेहभावित्वात्
दर्शयति च ४।२॥१९॥ विदुष उत्क्रमणे हार्दानुग्रहकृतो यथा विशेषस्तथा कालविशेषकृतोपि विशेषो भविष्यतीत्याशङ्क्य तन्निरासमाह । तत्राहोरात्रकृतो१० यनकृतो वा स भवेत् । तत्राद्यकृतो नास्तीत्याह । नेति । तत्र हेतुः ।
संबन्धस्येत्यादि । अनुग्रहहेतुभूतो यः पूर्वोक्तो गत्यनुस्मृतिसंबन्धस्तस्य यावदेहभावित्वात् तत्कार्यस्यानुग्रहस्यापि तथात्वात्कालस्याप्रयोजकत्वमित्यर्थः । अत्र प्रमाणमाह । दर्शयति यतः श्रुतिः। तमेव विदित्वा
मुनिर्भवत्येतमेव प्रवाजिनो लोकमीप्सन्तः प्रव्रजन्ति (बृ. ४।४।२२) १५ इति ॥ ४॥२॥१९॥ हार्दानुग्रहस्य मुक्तिहेतोर्विद्यमानत्वादयनविशेषोप्यप्रयोजक इत्याह ।
अतश्चायनेपि दक्षिणे ॥४॥२॥२०॥ स्पष्टार्थमिदम् ॥४।२।२०॥
ननु-यत्र काले त्वनावृत्तिम् (भ. गी. ८२३) इति काल१० प्राधान्येनोपक्रम्य-अमिर्कोतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र
प्रयाता गच्छन्ति बह्म ब्रह्मविदो जनाः ( भ. गी. ८२४) इति भगवद्वाक्याद् ब्रह्मविदोप्युक्तकालापेक्षास्तीत्याशय विषयभेदेन समाधत्ते ।
योगिनः प्रति स्मर्यते स्माते चैते ॥४॥२॥२१ ॥
13- om. यतः before श्रुतिः।
१ [ अणुभाग्य]