________________
अ. पा. २ सू. १७] अणुभाष्यम् ।
३२८ पूर्वभूतेषु तच्छृतेः (ब्र. सू. ४।२।५ ) इत्यादिना मर्यादामार्गीयस्य वागादिलय उक्तोधुना तस्य जीवात्मन उत्क्रमणप्रकार उच्यते । स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति (बृ. ४।४।१) इति श्रुतेस्तस्यात्मन ओक आयतनं हृदयं तदनं पूर्वं प्रज्वलति पूर्व ५ तथाप्रकाशमानमपि तदा प्रकाशत इति यावत् । तदा तत्प्रकाशितं द्वारं निर्गमनमार्गो यस्य तादृश उत्कामति । यतः श्रुतिस्तथाह। तस्य हैतस्य हृदस्याग्रं प्रद्योतते तेनैष आत्मा निष्कामति चक्षुष्टो वा मूर्भो वा (छां. ४।४।२) इत्यादि। यद्यप्येतावत् सर्वजीवसाधारणं तथापि विद्वांस्तु नेतरवदितरनाड्या निष्क्रामति । किं तु शताधिकयैकशततम्या नाड्या मूर्धन्यया "निष्क्रामति-शतं चैका हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ् अन्या उत्क्रमणे भवन्ति (छां. ८।६।६) इति यतः श्रुतिराह । अत्र हेतुमाह । हार्दानुगृहीत इति हेत्वन्तरग विशेषणम् । गुहां प्रविष्टौ परमे परार्धे ( क. ३३१) इति श्रुतेहृदयाकाशसंबन्धी यः परमात्मा तदनुग्रहात् तथैव भवतीत्यर्थः । अनु१५ ग्रहे हेतुर्विद्यासामर्थ्यादिति । तस्या विद्यायाः शेषभूताङ्गभूता या गतिः
प्रव्रजनरूपा तच्छेषभूतैव या भगवत्स्मृतिपरम्परा च ताभ्यां च यो भगववदनुग्रहस्तेन तथेत्यर्थः ॥ ४।२।१७॥५॥
६ रश्म्यधिकरणम् ।
रभ्यनुसारी ॥ ४॥२॥१८॥ २० अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति
शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गलः ( छां. ८।६।१ ) इत्युपक्रम्याग्रे पठ्यते । तमभित आसीना आहुर्जानासि मां जानासि मामिति । स यावदस्माच्छरीरादनुकान्तो भवति तावज्जा
नात्यथ यत्रैतदस्माच्छरीरादुत्कामत्यथैतैरेव रश्मिभिरूवं आक्रमते ( छां. २५ ८।६।५) इति । अत्र तमभित इत्याद्युक्तेः सर्वसाधारण्युत्क्रान्तिः प्राप्यते ।