________________
३२७
५ तदोकोधिकरणम् ।
(अ.पा. १८. १७
कुञ्जगह्वरप्रदेशाद्रिसान्वाद्यात्मकत्वेन भूरि बहुरूपम् । तथा चैतादृशं यत्परमपदमवभाति तत्संबन्धीनि वास्तूनि कामयामह इति वाक्यार्थः संपद्यते । ते पदार्था इंति वक्तव्ये सति तानीत्युक्तिर्या सा विषयवाक्यानुरोधादिति ज्ञेयम्। ५ पुरुषोत्तमसंबन्ध्यर्थानां तत्प्राकट्यस्थान एव प्राकट्यं युक्तमिति हिशब्देनाह ॥ ४।२।१५॥३॥
४ अविभागाधिकरणम् । अविभागो वचनात् ॥ ४॥२॥१६॥ ननु लीलाया नित्यत्वेन तन्मध्यपातिनां तदर्शनं यथा नित्यं ० तथा तादृक्साधनाभावोपि निजानुकम्पया कदाचित् कमपि भक्तं तत्र नयति चेत्तदा कंचित् कालं स्थापयित्वा ततस्तं वियोजयति नवेति संशयः । तोषस्य कादाचित्कत्वात् तत्साध्या तत्र स्थितिरपि तथैवेति वियोजयतीति पूर्वः पक्षः। तत्र सिद्धान्तमाह । तत्र प्रवेशितस्य तस्माद
विभाग एव। कुतः । वचनात् । तैत्तिरीयक उक्तर्गनन्तरमेव-विष्णोः कर्माणि १५ पश्यत (ते. सं १।३।६) इत्युचा तत्र कृतानि कर्माण्युक्त्वा तदने वदति ।
तद्विष्णोः परमं पद सदा पश्यन्ति सूरयः (तै.सं. १।३।६) इति। पुरुषो त्तमस्वरूपवित्वं सूरित्वम् । तच्च भक्त्यैवेति सूरयो भक्ता एव । तेषां सदा दर्शनमुच्यते । अन्यथा लीलानित्यत्वेनैव पूर्वा तत्र स्थितगवादीनां प्रभुकर्मविषयाणां च भक्तानां सदा तद्दर्शनस्य प्राप्तत्वादिदं न वदेत्तस्मा२० दविभाग एव । एतेनापि लीलानित्यत्वं सिध्यति । एतद्यथा तथा विद्वन्मण्डने
प्रपञ्चितम् ॥४।२।१६॥४॥
__५ तदोकोधिकरणम् । एवं पुष्टिमार्गीयभक्तवृत्तान्तमुक्त्वा ज्ञानमार्गीयस्य तमाह। तदोकोप्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्त. छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः
शताधिकया ॥ ४॥२॥१७॥
२५