________________
३२६
भ. Y पा. २ रु. १] अणुभाग्यम् । ये त्यक्तलोकधर्माश्च मदर्थे तान्बिभर्म्यहम् (भा. १०।४६।४. ) इत्युपक्रम्य-धारयन्त्यथ कृच्छ्रेण प्रायः प्राणान् कथंचन ( भा. १०।४६।६) इत्यादि श्रीप्रभुवचनं श्रीमदुद्धववचनं च-एताः परं तनुभृतो भुवि गोपवध्वो गोविन्द एव निखिलात्मनि रूढभावाः । वाञ्छन्ति ये भवभियो ५ मुनयो वयं च किं ब्रह्मजन्मभिरनन्तकथारसस्य ( भा. १०।४७५८) इत्यादि । तेन भगवत एव जीवनहेतुत्वं भावस्य च परमपुरुषार्थत्वं दुरापत्वं च स्फुटमवगम्यते ॥ ४।२।१४ ॥
तानि परे तथा ह्याह ॥४॥२॥१५॥
ननु हृदि बहिश्च रसात्मकभगवत्प्राकट्यं तददर्शनजनितो विरह१. भावस्तजनितस्तापस्तेन मरणोपस्थितिस्तन्निवर्तनं तदौत्कट्यं तदा प्राकट्यं
ततः पूर्णस्वरूपानन्ददानादिकं लोके क्वचिदपि न दृष्टं श्रुतं वा वैकुण्ठेपीति कुत इत्याशङ्कायामाह । तानि । उक्तानि वस्तूनि परे प्रकृतिकालायतीते वैकुण्ठादप्युत्कृष्टे श्रीगोकुल एव सन्तीति शेषः । तत्र
प्रमाणमाह । तथा ह्याह श्रुतिः । ऋग्वेदे पठ्यते । ता वां वास्तून्युष्मसि ११ गमध्यै यत्र गावो भूरिशृङ्गा अयासः । अत्राह तदुरुगायस्य वृष्णः परमं पदमवभाति भूरि । (ऋ. सं. २।२।२४ तै. सं. १।३२६) ता तानि वां भगवत्तदन्तरङ्गभक्तयोः संबन्धीनि वास्तूनि वस्तूनि गमध्यै प्राप्तुमुष्मसि कामयामहे । तानि कानीत्याकाङ्क्षायां गूढाभिसंधिमुद्घाटयति । यत्र श्रीगोकूले गावो भूरिशृङ्गा बहुशृङ्गा रुरुप्रभृतयो १. मृगाश्च वसन्तीति शेषः । अयासः शुभावहाः । तत उक्तगुणविशिष्टमुरु गीयत इत्युरुगायस्तस्य । गोप्यो हि सततं तं गायन्ति । अत एव तदादिभक्तेषु कामान् वर्षतीति वृषा तस्य परमं प्रकृतिकालाद्यतीतं पदं स्थानं भगवतो वैकुण्ठं भवति तत्रैतादृशलीलाभावेन तस्मादपि परममु
त्कृष्टम् । अत्र भूमाववभाति प्रकाशत इत्यर्थः। तथापि स्वदृग्गोचरो न १५ भवतीति खेदेनात्राहेत्याह श्रुतिः । उरु गीयते परं सर्वत्र कामवर्षणं
भक्तेष्वत्रैवेति तात्पर्येण वा विशेषणद्वयमुक्तम् । यमुनापुलिनतदुपवनान