________________
३२५
३ समानाधिकरणम्। [म.पा. २ स. १४ भवति । को ह्येवान्यात् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति । (तै. २७) अत्र रसात्मकभगवत्स्वरूपलामे सत्यानन्दवत्त्वमुक्त्वा तस्यैव जीवनहेतुत्वं परमानन्दहेतुत्वं चोच्यते । मरणहेतूपस्थित्यभावे जीवनहेतुत्वं न वदेत् । स रसस्तु संयोगविप्रयोगभावाभ्यामेव ५ पूर्णो भवत्यनुभूतो नैकतरेण । तत्र विरहतापस्यात्युपमर्दित्वेन तदा पागस्थितिरपि न स्याद् यदि रसात्मको भगवान् हृदि न स्यादित्याशयेनाह । को ह्येवान्यादित्यादि । तद्यथेष हृदि स्फुरद्रूप आकाशो भगवान स्यात्कस्तदान्यात् । अन् प्राणने । को वा जीवयेन कोपीत्यर्थः। तादृशस्य
भगवत्स्वरूपातिरिक्तान जीवनमिति ज्ञापनाय सामान्यपदम् । ब्रह्मानन्दाधि१० कपूर्णानन्दविरहासन्नमरणनिवारणासामर्थ्यमतादृशस्योचितमेवेति ज्ञापनाय हिशब्दः।
तादृशस्य जीवनसंपादनं प्रभोरावश्यकमिति ज्ञापनायैवकारः । तापात्मकस्याप्यानन्दात्मकत्वमेवेति ज्ञापनायानन्दपदम् । तदा प्रलापगुण
गानादयो ये भवन्ति तेपि तद्धर्भा एव नीलाम्बुदश्यामोति क्लेशवशाद् १५ हृदयादपगच्छत्विति भावेपि हृदयान्नापसारयितुं शक्य इति ज्ञापनाय
चाकाशत्वमुक्तम् । तदनन्तरं प्रकटीभूय तदन्यः को वा प्रकर्षेण दर्शनस्पश्लेिषभाषणादिभिः स्वरूपानन्ददानेनान्यात् पूर्वतापनिवृत्तिपूर्वकमानन्दपूर्ण कुर्यादित्यर्थः । रस५ ह्येवायं लब्ध्वानन्दीभवति (ते. २१७ ) इति
पूर्ववाक्येनैवान्यव्यवच्छेदपूर्वकं भगवत्प्राप्तेरानन्दहेतुत्वप्राप्तावपि यत्पुनराह २० तत्रापि व्यतिरेकमुखेन तत्रापि जीवनहेतुत्वं तदपि सामान्यविशेषाभ्यां वारद्वयं तेन विरहसामयिकोक्तरूप एवार्थः श्रुतेरभिप्रेत इति निश्चीयते ।' अन्यथा मरणहेत्वनुपस्थितौ जीवनहेतुत्वं न वदेदित्युक्तम् । तदवस्थापन्नः को वा पुरुषो जीवेदिति वार्थः ॥ ४।२।१३॥
___ स्मर्यते च ॥ ४॥२॥१४॥ २५ । भगवद्भावस्य मरणहेतुत्वं तेनैव च जीवनं तस्य ब्रह्मादिदुरापत्वं . ___ च श्रीभागवते स्मयते। ता मन्मनस्का मत्पाणा मदर्थे त्यक्तदहिकाः ।