________________
भ. ४. २ सू. १० j
अणुभाष्यम् ।
पूर्वस्यास्त्वस्यास्त्वतिदुःसहत्वेन सर्वेषां भावानामुपमर्देन तिरोधानेनोपदेशो न भवतीत्यर्थः । संगमे तु अतः पुरः प्रकटपरमानन्दस्वरूपाद्भगवत एव तोरुपदेशोन्यस्मै न भवतीत्यर्थः । नहि भगवदग्रे स संभवतीति विः ॥ ४।२।१ ० ॥
"
३२४
ननु - रसो वै सः रस ह्येवायं लब्ध्वानन्दीभवति (ते. २७ ) इत्युपक्रम्य – एष ह्येवानन्दयाति ( तै. २७ ) इति श्रुतेरुक्तरूपानन्दप्राप्तौ दुःसहविरहतापोशक्यवचनः । आनन्दतिरोधान एव तत्संभवात् । तद्धेतोरसंभवात् । संभवे तु तत्प्राप्तिरेव न स्यादिति प्राप्त उत्तरं पठति अस्यैव चोपपत्तेरूष्मा ॥ ४।२।११ ॥
आनन्दात्मकरसात्मकस्यास्यैव भगवत एव धर्म ऊष्मा विरहताप इत्यर्थः । विरोधपरिहारायाह । उपपत्तेरिति । इदमुक्तं भवति । भगवद्विरहस्य सर्वसाधारणत्वेपि स्थायिभावात्मकरसरूपभगवत्प्रादुर्भावो यस्य हृदि भवति तस्यैव तदप्राप्तिजस्तापस्तदनन्तरं नियमतस्तत्प्राप्तिश्च भवति । न त्वतथाभूतस्येत्यन्वयव्यतिरेकाभ्यामुक्तरसस्यैवैष धर्म इति नीयते । १५ तस्य वस्तुन एव तथात्वात्स तापोपि रसात्मक एव ॥ ४।२।११ ॥ प्रतिषेधादिति चेन्न शारीरात् ॥ ४।२।१२ ॥
1
ननु - न पश्य मृत्युं पश्यति न रोगं नोत दुःखताम् (छां. ७।२६।२) इत्यादिश्रुत्या दुःखप्रतिषेधस्तादृशे भक्ते क्रियत इति तस्य दुःखित्वं न वक्तुं शक्यमित्याशङ्क्य प्रतिषेधति । नेति । कुतः । शारीरात् । शरीर*• संबन्धिनो हेतोर्यदुःखं कर्मजनितमिति यावत् । तस्यैव श्रुतौ प्रतिषेधान्नात्रानुपपत्तिरित्यर्थः । एतेन दुःखत्वेन कर्मजन्यत्वानुमानमपि निरस्तं वेदितव्यम् । लौकिक एव दुःखे तज्जन्यत्वनियमात् ॥ ४/२/१२ ॥ स्पष्टो ह्येषाम् ॥ ४।२।१३ ॥
एकेषां शाखिनां भगवत्स्वरूपलाभानन्तरं दुःखतन्निवर्तनलक्षणो३५ र्थः स्पष्टः पठ्यते । तथाहि । रसो वै सः । रस ५ ह्येवायं लब्ध्वानन्दी
A-M, A and C read असर्व for सर्व ।