________________
३२३
३ समानाधिकरणम् ।
[ अ. ४ पा. १ सू. १०
मद्भक्ता यान्ति मामपि (भ.गी. ७१२३ ) इति वाक्येन । मर्यादामार्गी - यमक्तमुक्तेरितरसाधारण्यमुच्यते ॥ ४२८ ॥
ननु संसारवन्मुक्तेरपि हेयत्वं यत्र तादृशं चेत् पुष्टिमार्गीयतत्त्वं तदा मुक्तेः पुरुषार्थत्वबोधिकायाः श्रुतेः प्रतारकत्वमापतीति तद्बोधक५ प्रमाणानां तत्स्तुतिमात्रपरत्वमेवेति प्राप्त आह ।
सूक्ष्मं प्रमाणतश्व तथोपलब्धेः ॥ ४।२।९ ॥ पुष्टिमार्गीयं तत्त्वं सूक्ष्मं दुर्ज्ञेयमित्यर्थः । अत्रायमाशयः । पुष्टिमर्यादामप्यतिक्रम्य पुष्टिपुष्ट प्रवेशे तत्तत्वमनुभवविषयो भवति नान्यथा । तत्र प्रवेशस्त्वतिदुरापोतिशयितानुग्रहेतरासाध्यत्वादत उक्तेतराज्ञेयमेव १० तद्भवति । तेषां तु मुक्तिरेव फलम् । तस्या एवैष्टत्वाद्रागिणां स्वर्गादिवत् । फलाम हि प्रतारकत्वमन्यथा प्रवृत्तिमार्गीयफलबोधिकाया अपि श्रुतेः प्रतारकत्वं स्यात्। इच्छा चाधिकारानुसारिणीति नानुपपन्नं किंचिदिति । नन्वेवंविधार्थास्तित्वे किं मानमित्याकाङ्क्षायामाह । प्रमाणत इत्यादि । प्रमाणं श्रुतिः । सा तु—यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । • आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्वन (तै २ । ९ ) इति । एतह वाव न तपति । किमहं साधु नाकरवं ( तै. २९ ) इति ।
किमहं पापमकरवम्
अत्र पूर्वार्धेन दुर्ज्ञेयत्वमुत्तरार्धेन तत्सत्ता च बोध्यते । अन्यथा मनसाप्यप्राप्यस्य वेदनकथनं विरुद्धं स्यादतो दुर्ज्ञेयत्वेनैव धर्मिग्राहकमान३० सिद्धं तदित्यर्थः । चकारात्तादृशानामनुभवः परिगृह्यते ॥ ४२९ ॥ तर्हि ब्रह्मविदामिव तादृशानां भक्तानामपि स्वमार्गोपदेशनं वाच
च्छ्रयेत । न चैवम् । अतः पूर्वोक्तं न साधीय इति भातीत्युत्सूत्रमाशङ्कच तत्र हेतुमाह ।
नोपमर्देनातः || ४|२|१० ॥
२५
उपदेशनं तदा स्याद् यदि ब्रह्मविदामिव तेषां स्वास्थ्यं स्याद्यतस्तेषां विरहिदशा प्रिय संगमदशा चेति दशाद्वयमेव भवति नान्या 4