________________
अ. पा. २ सू. ७ ]
५
अणुभाष्यम् ।
३ समानाधिकरणम् ।
मर्यादापुष्टयोर्न कदाचिदन्यथाभाव इति यदुक्तं तत्र हेत्वपेक्षायां वस्तुस्वरूपमेव तथेति बोधयितुमाह । समानेत्यादि ।
३२२
समाना चामृत्युपक्रमादमृतत्वं चानुपोष्य || ४|२|७ ॥
अत्रायमाशयः । साधनक्रमेण मोचनेच्छा हि मर्यादामार्गीया मर्यादा | विहितसाधनं विनैव मोचनेच्छा पुष्टिमार्गमर्यादा । तथा सति संदैकरूपत्वं तयोर्युक्तमिति । एतदेवाह । सृतिः संसृतिः । जीवानां स्वस्मात् पृथक्कृतानामविद्ययाहन्ताममतास्पदीकरणम् । तदुपक्रम आरम्भस्तं मर्यादीकृत्य मुक्तिपर्यन्तमुक्तरूपा मर्यादा समाना सदैकरूपा १० मध्ये नान्यथा भवतीत्यर्थः । एवमेवानुपोष्य व्रतमकृत्वामृतत्वमपि पुष्टिमार्गे समानमित्यर्थः । अत्रोपोषणपद्मशेषमुक्तिसाधनोपलक्षकम् ॥ ४।२।७ ॥
एवं प्रासंगिकमुक्त्वा प्रकृतं परामृश्यते । सोध्यक्ष इति सूत्रेण पुष्टि - मार्गीयभक्तसंघातस्य भगवन्येव लय इत्युक्तम् । अग्रिमेण तेन मर्यादा१५ मार्गीय भक्तसंघातस्य भूतेषु लयमुक्त्वा प्रश्नानन्तरं शुद्धजीवस्य तस्य मुक्तिरेव भवतीति वक्तव्ये सति- आहर सौम्य हस्तम् (बृ. ३/२/१३ ) इत्यादिना स्वाशयमन्येष्वप्रकटयन्तौ कर्म यन्निरूपितवन्तौ तत्कुत इत्याशङ्क्य तयोराशयं निगूढं प्रकटयति ।
तदापीतेः संसारव्यपदेशात् ॥ ४२८ ॥
तदा नित्यलीलान्तः पातलक्षणपुष्टिमार्गीयमुक्तिदशायां मर्यादामार्गीयाया अपतेर्मुक्तेः संसारत्वाभावेपि पुरुषोत्तमभजनानन्दानुभवाभावात् संसार इत्येव पुष्टिमार्गे व्यपदेशो यतः क्रियतेतस्तदभिसंधाय तया रीत्या निरूपणम् । अत एव श्रीभागवते श्रीशिववचनं गीयते - नारायणपरा: सर्वे न कुतश्वन बिभ्यति । स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः १५ ( भा. ६।१७।२८ ) इति । श्रीभगवद्गीतास्वपि । देवान् देवयजो यान्ति
२०