________________
३२१
२ भूताधिकरणम्। [अ.पा. १ सू. ६ वती तौ हत्यादिना । अत्र कर्मपदं मर्यादामार्गपरं तथा च मर्यादामार्ग एव तस्य स्थितिरित्यर्थः संपद्यते । मुक्त एव भवतीति यावत् । अत एव तत्पशंसापि । यत ईश्वरत्वेन सर्वकरणसमर्थोपि तद्दाने तदपेक्षते। अत्र हेतुत्वेन मर्यादामार्गस्वरूपमुक्तम्--पुण्यो वै (बृ. ३।२।१३) ५ इत्यादिना ॥ ४।२।५॥
___ ननु मर्यादामार्गीयो भक्तो ज्ञानी च भवतः । उक्तनिर्णयस्तु ज्ञानमार्गीयविषय एव । भक्तं तु तादृशमपि कदाचित् पुष्टावपि प्रवेशयतीत्याशक्य तन्निर्णयमाह।
नैकस्मिन् दर्शयतो हि ॥ ४॥२॥६॥ एकस्मिन् ज्ञानिनि भक्ते वा मर्यादानियमो न किंतूभयोरपि । तत्र हेतुः-दर्शयत इति । यतो याज्ञवल्क्यातभागौ ज्ञानिभक्तसाधारण्येन मर्यादानियमं दर्शयत उक्तरीत्या तौ हेत्यादिना । अन्यथाप्राकृताङ्गीकृतिरन्यथा भवेदित्युपपत्तिर्हिशब्देन सूच्यते । पूर्वोक्तपूर्वोत्तरश्रुतिविरोधपरिहारान्यथानुपपत्तिरत्र मूलमिति ज्ञेयम् । केचित्तूपसंहृतेषु वागादिषु शरीरा१५ न्तरप्रेप्सासामयिको जीवः कायं तदा पुरुष इति प्रश्नविषयः इति वदन्ति ।
तन्न साधीयः । तमुत्क्रामन्तं प्राणोनूत्क्रामति प्राणमनूत्क्रामन्त५ सर्वे पाणा अनूत्क्रामान्त (बृ. ४।४।२) इति श्रुति विदेहान्तरजीवस्य पाणानामिन्द्रियाणां च सहैवोत्क्रमणं वदतीति वागादिलयस्य तत्रासंभ
वान्नोक्तस्य प्रश्नविषयत्वं वक्तुं शक्यम् । पूर्ववाक्यत्रैव समवलीयन्त इत्यु२. तत्वाच्चातोस्मदुक्त एव मार्गानुसतव्यः । एतेन नायं परविद्यावान् यतः
अमृतत्वमेव तत्फलमिति । तच्च देशान्तरानायत्तमित्युत्क्रमणापेक्षा कर्माश्रयत्वं च न स्यात् । किंत्वपरविद्यावान् । तस्यास्तु ब्रह्मलोकावधि फलमिति कर्माश्रयत्वोत्क्रमणादिकं संभवतीत्यपि निरस्तं वेदितव्यम् ॥४॥२॥६॥ २ ॥
12-M, A and C read प्राकृताङ्गीकारी for प्राकृताङ्गीकृतिः ।
११ [अणुभाष्य ]