________________
अ. प. २ सू. ५] अणुभाज्यम् ।
३२० होवाच । यत्रायं पुरुषो म्रियत उदस्मात् प्राणाः कामन्त्याहो नेति नेति होवाच याज्ञवल्क्योत्रैव समवनीयन्ते स उच्छ्रायत्याध्मायत्याध्मातो मृतः शेते (बृ. ॥२।११ ) इति पूर्ववाक्यात् । न ह्यविदुषः प्राणानामनु
क्रमः । तमुत्क्रामन्तं प्राणोनूत्कामति ( बृ. ४।४।२ ) इत्यादिश्रुतेः । ५ ननु यत्रास्य पुरुषस्य (बृ. १२।१३) इत्युपक्रम्य-रेतश्च निधीयते (बृ. ३।२।१३ ) इत्यन्ता श्रुतिरविद्वद्विषयिणीति मन्तव्यम् । यत एतदने-क्वायं तदा पुरुषो भवति (बृ. ३।२।१३ ) इति प्रश्ने याज्ञवल्क्यातभागाभ्यां विचारितमुत्तरमुच्यते । तौ ह यदूचतुः कर्म हैव तदूचतुरथ ह यत् प्रशशश्सतुः कर्म हैव तत् प्रशश सतुः पुण्यो वै पुण्येन • कर्मणा भवति पापः पापेन (बृ. ॥२१३) इति । एतेन कर्माश्रयस्तिष्ठतीति निर्णय: संपद्यते । एवं सति प्राणानुत्क्रमणोक्त्या संघातलयोक्त्या च विद्वद्विषयत्वमत्रावसीयते यतस्तस्यैवोक्तं द्वयं संभवति । अग्रिमश्रुत्युक्तकर्माश्रयत्वं च तस्मिन् विरुद्धमतः पूर्वोत्तरविरोधाद्विषयानिश्चये प्राप्ते प्रतिवदामः । मर्यादामार्गीयविद्वद्विषयिण्येवेयं श्रुतिरिति । १५ अत एव प्रश्ने क्व तदा पुरुषो भवति इत्येतावतैव चारितार्थ्यपि साधारणपुरुषव्यावृत्त्या मर्यादामार्गीयतत्पापकमयमिति पदम् । तस्यैवोपक्रान्तत्वात् । तथा तदग्रिमविचारितोर्थोपि तद्विषयक एवेति बुध्यस्व । ननूक्तं बाधकमिति चेत् । हन्त श्रुतिशिरःसमाकलितमाकलय । मर्यादामार्गे हि विधिप्राधान्यात्तथैव निर्माणात् । तत्र ह्येवं कृत एवं फलं २० दास्ये न त्वकृतेपीति भगवदिच्छा । अतः कर्म प्रधानम् । एवं सत्यार्तभागस्यायमाशयः । वागादिरेतोन्तलयेन प्रारब्धस्यापि तदा नाशाच्छुद्धं जीवं विध्यविषयं कदाचित्पुष्टौ प्रवेशयति नवेति संशयेन तदापि किं मर्यादामार्ग एवोत पुष्टावपि प्रवेशितो भवतीति प्रश्नः ।
तदास्यार्थस्येश्वरेच्छारीतिमविदुषो दुयित्वं जानन्ती स्वयमेव यद२५ वधारितवती तदपि रहस्यमिति स्फुटमनुक्त्वा श्रुतिः पर्यवसितमर्थमुक्त
1-M and Cread विधिप्राधान्यं for विधिप्राधान्यात् ।