________________
३१९
२ भूताधिकरणम् । [अ. ४ पा. २ सू. ५ सोध्यक्षे तदुपगमादिभ्यः ४।२।४॥ सर्वेन्द्रियविशिष्टमनोविशिष्टः प्राणोध्यक्षे पुरो हृदि वा प्रकटे भगवति संपद्यत इत्यर्थः। अत्र हेतुः । उपगमादिभ्य इति । उपगमोभ्युपगमः
पुष्टिमार्गेङ्गीकार इति यावत् । ततस्तथेत्यर्थः । आदिपदाद् भगवद्वशीकर५ णसमर्थः स्नेहः प्रभवनिङ्गितार्थत्यागस्तदनुरूपं भजनं च । अभ्युपगमे सिद्धे स्नेहादयोवश्यं भवन्त्येवेत्याशयेन तदादित्वमुक्तम् । नोद्देशः कृतः । मर्यादामार्गेङ्गीकृतानां तु मुक्तिपर्यवसायित्वेन मुमुक्षुत्वादुत्कटस्नेहासंभवेन प्रभुप्राकट्यासंभवात् स्वप्रकृतौ संघातलये शुद्धजीवस्य भग
वदनुग्रहेण श्रवणादिरूपया तथाविधस्नेहरूपया च भक्त्या मुक्तिः संप१० द्यत इति बढेव तारतम्यमिति निगूढाशयेनेदमुक्तम् । अभ्युपगमादयस्तु मुण्डकोपनिषत्सु पठ्यन्ते । नायमात्मा ( मुं. ३।२।४ ) इत्युपक्रम्ययमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा वृणुते तनूं स्वाम् । नायमास्माबलहीनेन लभ्यो न च प्रमादात्तपसा वाथ लिङ्गात् । एतैरुपायै
र्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्म धाम ( मुं. ३।२।४ ) १५ इति ॥ ४।२।४ ॥ १ ॥
२ भूताधिकरणम् । उक्तं निगूढमाशयं प्रकटयति ।
भूतेषु तच्छृतेः ॥ ४॥२॥५॥ ननु मर्यादामार्गीयाणामप्येवमेव वागादिलय उतान्यथेति संशये २० निर्णयमाह । तेषां ते भूतेषु लीयन्ते न तूक्तरीत्या भगवति । अत्र प्रमा
णमाह तच्छृतेः । यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवी५ शरीरमाकाशमात्मौषधीोमानि वनस्पतीन् केशा अप्सु लोहितं च रेतश्च निधीयते (बृ. ३।२।१३) इति श्रुतेः । न चाविद्वद्विषयिणीयं श्रुतिरिति वाच्यम् । याज्ञवल्क्येति