________________
अ. . पा. २ सू..]
अणुभाष्यम् ।
३१८
येन प्रभुणा सह सर्वेन्द्रियव्यापारकृतीच्छा समभूत् । तत्र तेषामसाम
र्थ्यात् भगवदानन्दसंबन्धिमनःसंबन्धेन तं प्राप्स्याम इति तत्रैव संगता. स्तेनानन्देन संपन्ना जाताः । अयमेवार्थोनेन सूत्रेणाग्रिमेण च-अत एव सर्वाण्यनु (ब्र. सू. ४।२।२) इति सूत्रेण निरूप्यते । दर्शनानन्तरमादौ ५ सहसंभाषणेच्छैव जन्यत इति वाङ् मनसि संपद्यते ( छां. ६।८६) इति च्छान्दोग्ये स्फुटोक्ते संमत्या चादौ सैवोक्ता । एवं सति वाङ् मनसि संगता सती भगवदानन्देन संपद्यत इति सूत्रार्थः संपद्यते । दर्शनाभावेपि वेण्वादिशब्दादपि तथा संपद्यत इति हेत्वन्तरमाह । शब्दाच्चेति ॥ ४।२।१ ॥
अत एव सर्वाण्यनु ॥४॥२॥२॥ अत एव दर्शनाच्छब्दाच्च हेतोः सर्वाणीन्द्रियाणि । अनु सांनिध्याद् वाचः पश्चान्मनसि संगतानि भगवदानन्देन संपद्यन्त इत्यर्थः । केचित्वत्र छान्दोग्यस्थ-वाङ् मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां
देवतायाम् (छां. ६।८।६) इति वाक्यं विषयत्वेनोक्त्वा सूत्रे वाक्पदस्य १५ तद्वत्तिपरत्वं वदन्ति संपत्तिं तन्नाशं च । तन्न साधीयः । तथाहि । वाक्प
दस्य वृत्तिपरत्वं चेच्छ्रत्यभिमतं स्यात्सूत्रकारस्तदा तथैव तदेन्न तु तत्सारूप्यमेव वाक्यम् । तन्निर्णयार्थमेव प्रवृत्तेः । मुख्यार्थत्यागो लक्षणापत्तिश्च । किंचैव मनसीति पदवैयर्थ्यं स्यात् । विषयवाक्योक्तक्रमत्यागानुपपत्ति
श्वेति ॥ ४।२२॥ २.
तन्मनः प्राण उत्तरात् ॥ ४॥२॥३॥ पूर्वोक्तसर्वेन्द्रियवैशिष्ट्यवन्मनः प्राणे संपद्यते न तु केवलम् । तत्र हेतुः। उत्तरादिति । स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत एवमेव खलु सोम्य तन्मनो दिशं दिशं
पतित्वान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते ( छां. ६।८।२) इत्युक्त्वा २५ तत्र हेतुमुत्तरेण वाक्येनाह। पाणबन्धनं हि सोम्य मनः (छीं. ६।८।२)
इति । तस्माद्धेतोस्तथेत्यर्थः ॥ १।२।३ ॥