________________
३१७
१ वाङ्मनोधिकरणम्।
[अ. पा. २. १
शाखायाम् अथाकामयमानः (बृ. ४।४।६) इत्युपक्रम्य-आत्मकाम आप्तकामो भवति न तस्मात् प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते ब्रह्मैव सन् ब्रह्माप्येति (बृ. ४।४।६) इत्यन्तेन वाक्येन निगद्यते । अत्र प्राणशब्देन प्राणाः सन्द्रियाणि चोच्यन्ते । आत्मकामशब्देन भगवद्वाचकात्मपद५ ग्रहणेन भक्तस्य स्नेहातिशयजनितप्रभुदिदृक्षार्त्यतिशयस्तादृशो येन मरणमेव संपयेत यदि प्रभुप्राकट्ये क्षणमपि विलम्बः स्यात् । अतो भगवत्पाकट्येनैवात्मस्थितिरिति ध्वन्यते । भक्तिमार्गे प्राकट्यस्यैव परमफलत्वेन तदर्शनेनाप्तकामो भवति । ततः साक्षादाश्लेषादिकामनायां प्राचीनदेह
पाणादेस्तदयोग्यत्वात्ते तत्रैव लीना भवन्तीति । बहिः प्रकटस्यैवान्तरपि १० प्राकट्यादुत्क्रमणाभाव उच्यते । आत्मातिरिक्तस्य गतिमुक्त्वा तस्य तामाह । ब्रह्मैव सन् ब्रह्माप्योति (बृ. ४।४।६) इत्यनेन उक्तरीत्या पुरुषात्मकतल्लीलोपयोगिदेहेन्द्रियादिसंपत्त्या ब्रह्मैव सन्न तु ब्रह्मातिरिक्तदेहादिमानपि तादृशः सन् ब्रह्म बृहत्वात् बृंहणत्वात् पुरुषोत्तमस्वरूपं
प्राप्तो भवतीत्यर्थः । अन्यथा जीवस्य ब्रह्मांशत्वेनानन्दांशाविर्भावेन च १५ ब्रह्मत्वे प्राणादिलयोक्त्या ब्रह्म तदितरव्यवच्छेदे चानुक्तसिद्ध सति ब्रह्मैव सन्निति वा न वदेत् । अत एवैतदने श्लोकोक्तिः। अथ मोमृतो भवत्यत्र ब्रह्म समश्नुते (बृ. ४।४।७ ) इति । मृतिधर्मवच्छरीरं हि मर्त्य तद्वत्त्वेन जीवोपि तथोच्यते । तथा चायं पूर्वं तादृश एव । अथ पुष्टि
लीलाप्रवेशानन्तरममृत उक्तरूपशरीरवान् भवति । ततोत्रास्मिन्नेव शरीरे २० ब्रह्म सम्यगश्नुते । भगवता क्रियमाणलीलारसमनुभवतीत्यर्थः । भगवान् बादरायण इमामेव श्रुतिं विषयीकृत्य तत्रोक्तप्राणानां लय एकदैवोत क्रमनियमोस्तीति संशये निर्णयमाह । वाङ् मनसीति । तत्र हेतुर्दर्शनादिति । एतदुक्तं भवति । भक्तेः स्नेहात्मकत्वात्तस्य प्रभुप्राकट्यफलकत्वात्त
दौत्कण्ठ्ये तस्यावश्यकत्वादयं मां पश्यत्विति प्रभ्विच्छया तस्मिन् संपन्ने २५ चक्षुर्त्यां मनसा च तद्रूपामृतमनुभवतः स कोप्युत्कटो भावः समजान
9-M, A and Cread भवन्ति for भवन्तीति । 15-M, A, C and D om. ब्रह्म after प्राणादिलयोक्त्या ।