________________
अ. पा. २ सू. १]
अणुभाष्यम् ।
अथ चतुर्थाध्याये द्वितीयः पादः।
१ वाङ्मनोधिकरणम् । वाङ् मनसि दर्शनाच्छब्दाच ॥ ४२ ॥
'पूर्वपादे लौकिकशरीरे क्षपयित्वालौकिकं तत्प्राप्य फलेन संपद्यत ५ इति निरूपितम्। अथात्रेदं चिन्त्यते । भक्तस्य सूक्ष्मशरीरस्य क्षपणं नाम किं तत्स्वरूपनाशनमुत मणिस्पर्शादयश्चामीकरत्वमिव तस्यैवालौकिकत्वसंपादनं भगवदनुग्रहादिति । अत्रोत्तर एव पक्षः साधीयानिति भाति । तथाहि यथा पूर्वं संसारिण एव जीवस्य तदनुग्रहात् पूर्वावस्थापगमो मुक्त्यवस्था
चोच्यते तथात्रापि वक्तुमुचितत्वात् । न तस्मात्प्राणा उत्क्रामन्त्य." त्रैव समवलीयन्ते ( बृ. ४।४।६) इति श्रुतिस्तु जीवस्य सायुज्यमुक्ति
काले तत्प्राणादीनामपि तथैवाहात एवाग्रे-ब्रह्मैव सन् ब्रह्माप्येति (बृ. ४।४।६) इत्युच्यते। पुष्टिमार्गीयस्योक्तमुक्त्यभावान्नेयं तद्विषयिणीति प्राप्ते प्रतिवदामः । ब्रह्मांशत्वेन जीवस्यानन्दात्मकत्वानिदोषस्वरूपत्वान्नित्यत्वाच्च दोषाणां चागन्तुकत्वात्तदपगमे तस्य तथात्वमुचितम्। प्राणादयस्तु १५ न तादृशा इति तद् दृष्टान्तेनात्रापि तथात्वं न वक्तुं शक्यम् । देहेन्द्रियासही
नानां वैकुण्ठपुरवासिनाम् ( भा. ७१।३४) इति श्रीभागवतवाक्याच्च। न च लौकिकत्वविशिष्टदेहादिरत्र निषिध्यत इति वाच्यम् । सामान्यनिषधे बाधकाभावात् । न च तदनुभव एव बाधक इति वाच्यम् । भगवत इव तदीयानामपि तेषां तथात्वे बाधकाभावात् । २. नन्वागन्तुकत्वमेव बाधकमिति चेन्मैवम् । यथा व्यापिवैकुण्ठस्याक्ष
रात्मकत्वेनागन्तुकत्वेन नैसर्गिकतद्गताखिलवस्तुरूपत्वेन सामीप्यादिमुक्तिं प्राप्नुवतां भक्तानां देहेन्द्रियादिरूपमप्यनागन्तुकमेव वैकुण्ठप्राप्तिमात्रेण शुद्धजीवानां संपद्यते। तदीयत्वेन तत् फलतीति यावत् । तथा पुरु
षोत्तमलीलाया अपि पुरुषोत्तमात्मकत्वात्तत्राङ्गीकारमात्रेण प्राचीनाशेषप्रा१५ वाहिकधर्मनिवृत्तौ शुद्धजीवस्य पुरुषोत्तमलीलात्मकदेहादिरपि तदीयत्वेन संपद्यत इति नानुपन्नं किंचिदित्यवहितोवेहि । अयमेवार्थो वाजसनेयि