________________
३१५
७ अतोन्याधिकरणम्।
७
[अ. पा. १ सू. १९
भवतीत्युपसंहारादुद्गीथोपासनाविषयमेव यदेव विद्ययेति वाक्यमिति ज्ञायते । तेनोक्तरसतमत्वादिप्रकारकोपासनानां मध्ये-यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति ( छां. १।१।१० ) इति तदर्थ इति न ब्रह्मविद्यागन्धोपीति न सा शङ्कात्र संभवतीत्यर्थः । यद्वा । उक्ताशङ्का५ निरासायैवाह । यदेवेति । ब्रह्मविद्धि प्रारब्धक्षयायैव कर्म कुरुते तत्त्वन्यकृतात्कर्मणः सकाशात् सवासनतन्नाशनाद् वीर्यवत्तरं भवत्येवेति नानुपपत्तिः काचिदित्यर्थः । यद्वा । ननु पुष्टिमार्गीयस्य प्रारब्धस्यापि भोगं विनव नाश इति श्रुत्वासंभावनां कुर्वाणं प्रति कैमुतिकन्यायेन तत्परिहारमाह । यदेवेत्यादि । जीवनिष्ठा विद्या हि भगवज्ञानशक्तरंशभूता । १. एवं सति यत्र धर्मसंबन्धिसबन्धादन्येभ्योतिशयं कर्मणि वदति श्रुतिस्तत्र
साक्षाद्धर्मिसंबन्धेतिशयितकार्यसंपत्तौ कथमसंभावना कर्तुमुचितेति निगूढाशयः । अत एव हेतुवाची हिशब्दः ॥ ४।१।१८॥
भोगेन वितरे क्षपयित्वाथ संपद्यते ॥४॥१॥१९॥
पुष्टिमार्गीयफलप्राप्तौ प्रतिबन्धाभावं सोपपत्तिकमुक्त्वा तत्प्राप्तिप्रका१५ रमाह । इतरे । अग्रेप्राप्यालौकिकदेहाद्भिन्ने स्थूललिङ्गशरीरे क्षपयित्वा
दूरीकृत्य, अथ भगवल्लीलोपयोगिदेहप्राप्त्यनन्तरं भोगेन संपद्यते । सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता ( तै. २।१ ) इति श्रुत्युक्तेन भोगेन संपद्यत इत्यर्थः । श्रुत्यर्थस्त्वानन्दमयाधिकरणे निरूपितः ।
अलौकिकत्वं विनोक्तदेहं विना चोक्तफलप्राप्तेर्व्यवच्छेदकस्तुशब्दः २०॥ ४।१।१९ ॥ ७॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाष्ये
चतुर्थाध्यायस्य प्रथमः पादः ॥ ४॥१॥