________________
अपा . १ सू. १७] अणुभाष्यम्।
३१४ भक्तानामुभयोः प्रारब्धाप्रारब्धयोोग विनैव नाशो भवति । कुत एतत् । तत्राह । अतः श्रुतेः कर्मणो ज्ञाननाश्यत्वनिरूपिकायाः। ब्रह्मविद एव प्रवचनादिनिरूपणेन तदनाश्यप्रारब्धाख्यकर्माक्षेपकश्रुतेश्च । अन्यापि श्रुतिः पठ्यते। तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः ५ पापकृत्याम् इति । ज्ञानभोगाभ्यां कर्मनाशनिरूपकश्रुत्यास्याः
श्रुतेर्विरोधपरिहारायावश्यं विषयभेदो वाच्यः । न च काम्यकर्मविषयेयं श्रुतिरिति वाच्यम् । तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ (ब्र. सू. ४।१।१३) इति सूत्रेणेतरस्याप्येवामिति सूत्रावयवेन चाविशे
षेणारब्धातिरिक्तकर्मणोरखिलयो शनिरूपणात् । पापकृत्यायां काम्यत्वा.० संभवाच्च । तस्मादत्यनुग्रहभाजनस्य भक्तस्य स्वप्राप्तिविलम्बमसाहिष्णुर्भ
गवानस्य प्रारब्धमेतत्संबन्धिगतं कृत्वा तस्य तेन भोगं कारयति । प्रारब्धं भोगैकनाश्यमिति स्वकृतमर्यादापालनाय न नाशयति । न च तयोरमूर्तत्वेनाकृताभ्यागमप्रसंगेन च नैवं वक्तुमुचितमिति वाच्यम् । ईश्वरत्वेनान्य
थापि करणसंभवात् । मर्यादाविपरीतस्वरूपत्वात् पुष्टिमार्गस्य न काचना१५ त्रानुपपत्तिर्भावनीया । तस्या अत्र भूषणत्वात् । अत एवैकेषामिति दुर्लभा
धिकारः सूचितः॥ ४।१।१७॥
यदेव विद्ययेति हि ॥४।१।१८॥ ननु-यदेव विद्यया करोति (छां १।१।१० ) इति श्रुत्या विद्यापूर्वकं कर्मकरणे वीर्यातिशयः फलं श्रूयते । अतो ब्रह्मविद्यावतोपि तथा• त्वस्योचितत्वात् तदुत्तरस्याश्लेष इति यदुक्तं तन्नोपपद्यत इति प्राप्त आह। यदेवेति । हि यस्माद्धेतोस्त्वया-यदेव विद्यया करोति श्रद्धयोपनिषदा ( छां. १।१।१० ) इति श्रुतेरेव ब्रह्मविदोपि कर्मोत्पत्तिप्रसञ्जिकात्वेनोदाहृता। सा तु न समर्था । तथाहि । ॐ मित्ये
दक्षरमुद्गीथमुपासीत ( छां. १।१।१ ) इत्युपक्रम्य तस्य रसतमत्वं १५ मिथुनरूपत्वमनुज्ञाक्षरत्वं त्रयींप्रवृत्तिहेतुत्वं च निरूप्यैतदने-यदेव विद्यया
(छां. १।१।१० ) इत्यायुक्त्वा-इति खल्वेतस्यैवाक्षरस्योपव्याख्यानं