________________
३१३
७ अतोन्याधिकरणम् ।
[अ. पा. १ सू. १७
दशास्तीति सद्व्यवच्छेदज्ञापनाय तुशब्दः । एतेन भगवद्भावस्य सर्वतो बलवत्त्वात् कथं तस्य पात इति शङ्का निरस्ता । भगवदिच्छाया मूलकारणत्वेनोक्तेस्तस्याः सर्वतो बलिष्ठत्वात् । तथेच्छा च स्वकृतमर्यादापालनाय पुष्टावङ्गीकृते न तथेति सर्वमनवद्यम् ॥४।१।१५ ॥ ५ अग्निहोत्रादि तु तत्कार्यायैव तदर्शनात् ॥४॥१॥१६॥
ननु प्रारब्धं हि प्राचीनं तन्नाशाय तद्भोग एव कर्तव्यो ब्रह्मविदा न तु विहितमन्यदप्यमिहोत्रादि । प्रयोजनाभावात् । दृश्यते च तादृशानां तत्करणमत उत्तरस्य कर्मणः संश्लेष आवश्यक इत्याशङ्कय तत्प्रयोजन
माह । तुशब्दः शङ्काव्युदासकः। अग्निहोत्रादिविहितकर्मकरणं तत्कार्यायैव १० भोगकार्याय प्रारब्धनाशायैवेत्यर्थः । येषामग्निहोत्रादिकारकं प्रारब्धमस्ति तैरेव तन्नाशाय भोगवत्तदपि क्रियते न त्वतादृशैरत एव न सनकादीनां तथात्वम् । कुत एतत् । तद्दर्शनात् । यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन (बृ. ४।४।५) इति श्रुतिः पूर्वकर्मणोगिमकर्भहेतुत्वं दर्श१५ यतीति नानुपपत्तिः काचित् । केचित्तु ज्ञानस्य यत्कार्यं तदेवाग्निहोत्रा
देरिति तत्कार्यायेति पदस्यार्थं वदन्ति । स न साधुः । तदधिगम इत्युपक्रमाद् ब्रह्मविदः प्रारब्धात्मकप्रतिबन्धनाशे मोक्षस्य पूर्वज्ञानेनैव संपत्तेः कर्मणो वैयर्थ्यापातात् । तमेतं वेदानुवचनेन (बृ. ४।४।२२) इत्यादिश्रुतिदर्शनं दर्शनपदार्थ इत्यपि पूर्वविरोधादुपेक्ष्यः ॥ ४।१।१६॥ ६॥
___७ अतोन्याधिकरणम् । अतोन्यापि ह्येकेषामुभयोः॥४।१।१७॥
तदेवं पूर्वसूत्रचतुष्टयेन मर्यादामार्गीयभक्तस्य मर्यादयैव मुक्तिप्रतिबन्धसंभवस्तयैव तन्नाशश्चेति निरूपितम् । अथ पुष्टिमार्गीयस्य विनैव
भोगं प्रारब्धं नश्यति न वेति विचार्यते । तत्र भोगैकनाश्यस्वभावत्त्वात्तस्य २५ न तं विनास्यापि तन्नश्यतीति प्राप्ने निर्णयमाह । एकेषां पुष्टिमार्गीयाणां
7. [ अणभाष्य )