________________
अ. ४ पा. १ सू. १४]
अणुभाष्यम् ।
३१२
न व्याख्येयम् । पातशब्दस्य देहपातं तुशब्दस्यावधारणमर्थमुक्त्वा देहपाते मुक्तेरावश्यकत्वावधारणं वाक्यार्थ इति चोक्तिर्न साधीयसी। मुक्तिप्रापकपदाभावात्-भोगेन वितरे क्षपयित्वाथ संपद्यते (ब्र. सू. ४।१।१९) इत्यग्रे वक्तव्यत्वाञ्च ॥ ४।१।१४ ॥ ५ अनारब्धकार्ये एव तु पूर्व तदवधेः॥४१॥१५॥
ननु देहस्य कर्मजन्यत्वात्तन्नाशे तन्नाशस्यावश्यकत्वाच्च ब्रह्मविदः प्रवचनानुपपत्तिः । एवं सति ब्रह्मजिज्ञासोर्गुरूपसत्त्यादिसाधनासंभवः । आचार्यवान् पुरुषो वेद (छां. ६।१४।२) इति श्रुतेस्तदभावेन ज्ञानमार्गोच्छेदेन मुक्त्युच्छेदप्रसंग इत्याशङ्कय समाधत्ते । पूर्व पूर्वसूत्राभ्यां १० ज्ञाननाश्यत्वेन ये प्रोक्त पापपुण्ये ते नाशेषे किंत्वनारब्धं भोगा
यतनलक्षणं कार्य याभ्यां त एवेत्यर्थः । नन्वितरनिरपेक्षं हि ज्ञानं स्वशक्त्यैवाग्निरेध इव कर्माणि दहतीति पूर्वमुक्तं तथा सत्यशेषमेव तद्दहतीति वक्तुं युक्तम् । न तु सशेषम् । शक्तेरविशिष्टत्वात् । न च कर्मनाशेपि संस्कारवशात् कुलालचक्रभ्रमिवत्तद्वासनावशात् देहा१५ दिसत्तया प्रवचनाद्युपपत्तिरिति वाच्यम् । ज्ञानस्य सर्वतो बलवत्त्वात्
सवासनस्य तस्य नाशनात् । न हि महाशिलानिष्पाते चकभ्रमिरनुवर्तितुं शक्नोतीत्याशङ्कयारब्धकार्यादहने हेतुमाह-तदवधेः । तज्ज्ञानेनारब्धकार्यादहनं यत् तदखिलकारणकारणत्वेनाखिलस्य पूर्वावधिरूपभगवदिच्छालक्षणाद्धेतोरित्यर्थः । यत्र तस्यापि दहनेच्छा तत्र तथैवेति निगू२० ढाशयः । अत एवाये तथा वक्ष्यते । अत एव श्रीभागवते मृगदारकाभासेन
स्वारब्धकर्मणा योगारम्भणतो विभ्रंशित (भा.५।८।२६) इति । उपभोगेन कारब्धं व्यपनयन् (भा. ५।१०।१४) इति च भरतं प्रति वचनं गीयते । एवं सति मणिमन्त्रादिप्रतिबद्धशक्तरग्नेरिव ज्ञानस्याप्यदाहकत्वे न काचिद्धानिरिति सर्वमनवद्यम् । इच्छाप्रतिबद्धतादशायां न प्राचीना
1-0 om. न after तत्परत्वेन । 9-B reads भक्त्युच्छेद for मुक्त्युच्छेद । 16-M, A and C read fagra for fasura i