________________
३११
५ आप्रायणाधिकरणम् । [अ. पा. १ सू. ५४
समिद्दोग्निम्मसात्कुरुतेर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ( भ. गी. ४।३७ ) इति । सर्वं पाप्मानं तरति ब्रह्महत्यां योश्वमेधेन यजते ( छां. ५।२४।३ ) इत्यादिश्रुतिभिस्त्वयापि न तद्भोगनियमो वक्तुं शक्यः । एतेनामुक्तस्याक्षयाद्भोगे च कर्मान्तरजननान्मोक्षासंभव इति ५ निरस्तं वेदितव्यम् । न चान्योन्याश्रयः । अनाद्यविद्याजनितसंसारवासनात्मिका हि सा । सा च गुरूपसत्तिश्रवणमननविध्युपासनादिरूपया ज्ञानसामग्रचैव नाश्यते । अविद्या परं ज्ञानेन नाश्यत इति व तत्पसंगः । ज्ञानसामग्रया बलिष्ठत्वात्कर्मणो दुर्बलत्वान्न तत्प्रतिबन्धकन्वमिति ज्ञान
नाश्यत्वबोधकश्रुतिस्मृतिमता त्वयाप्युररीकार्यम् । इममेव हेतुमाहाचार्य १० स्तव्यपदेशादिति ॥ ४।१।१३ ॥
इतरस्याप्येवमसंश्लेषः पाते तु ॥ ४॥१॥१४॥
पापस्य शास्त्रविरोधित्वेन शास्त्रीयज्ञानेन समं विरोधो भवतु नाम । धर्मस्यातथात्वेनाविरोध एवेत्याशङ्कानिरासाय पूर्वन्यायातिदेशमाह । इतरस्य पुण्यस्याप्येवं पूर्वस्य नाश उत्तरस्याश्लेष इत्यर्थः । अतिदेशाद्धेतुरपि १५ स एव ज्ञेयः। तथाहि । उभे उ हैवैष एते तरति (बृ. ४।४।२२)। क्षीयन्ते
चास्य कर्माणि (मुं.२।२।८) इति सामान्यवचनात्-ज्ञानाग्निः सर्वकर्माणि (भ. गी. ४।३७) इति स्मृतौ सर्वशब्दाच्च तथा । अथेदं शङ्कयते। मर्यादामार्गीयत्वाग्ज्ञानानन्तरं भरतवत्संगदोषेण भगवद्भावाच्च्युतौ संगजदोषोत्प
त्तिवदने विहितनिषिद्धकर्मणोरप्युत्पत्तिर्वक्तुं शक्यति ज्ञानस्य न सर्वात्मना २० कर्मविरोधित्वमिति । तत्र निर्णयमाह। पाते भक्तिमार्गे भगवद्भावाच्च्युतिः
पात इत्युच्यते । तुरप्यर्थे । अपिशब्दे वाच्ये व्यवच्छेदार्थकतुशब्दोक्त्यास्मिन्मार्गे पापस्य व्यवच्छेद एव । न कर्हिचिन्मत्परा इति वाक्यात् । परंतु मर्यादामार्गीयत्वात् प्रारब्धभोगार्थं प्रभुश्चेत्तथा करोति तद्भावे पूणे सति
तद्भोगोसंभावित इति तदैवं भवतीति व्यासाभिप्रायो ज्ञायते। २५ तथाच तस्मिन् सत्यप्युत्तरस्य कर्मणोसंश्लेष एवेत्यर्थः । पूर्वसूत्र
एवमेवाश्लेषशब्दस्य व्युत्पत्तेः। अतिदेशस्यैवंपदेनैव प्राप्तेः सर्वं सूत्रं तत्परत्वेन
6-M, A and Cread विष्णूपासनादि for विध्युपासनादि।