________________
अ. ४ पा. १ सू. १२ ]
अणुभाष्यम् ।
३१०
सतामहम् ( भा. ११।११।४८ ) इति भगवद्वाक्यात् मायणशब्देन स्वतः पुरुषार्थत्वेन प्राप्यं परमं पारलौकिकं फलमुच्यते । तथा च फलं तन्मर्यादीकृत्य तस्य सैवावस्था सार्वदिकी न तु बहिः प्राकट्येपि बहिष्ट्वानुसंधानमित्यर्थः । ततस्तस्य तत्र सायुज्यं भवति न वेति संशये निर्ण५ माह । तत्रापि प्रायणेपि प्राप्ते तस्य पूर्ववत् प्रभुणा सममालापावलोकनश्रीचरणनलिनस्पर्शादिकं दृष्टमेव फलं न त्वदृष्टं सायुज्यमित्यर्थः । यतः शुद्धपुष्टिमार्गेङ्गीकृतोन्यथा पूर्वोक्तभाव संपत्तिः कथं स्यादित्युपपत्तिर्हिशब्देन सूच्यते । एतच्च - तद्भूतस्य तु नातद्भाव ( ब. सू. ३।४।४० ) इत्यत्र निरूपितम् || ४|१|१२ ॥ ५॥
१०
६ तदधिगमाधिकरणम् । तदधिगम उत्तरपूर्वाघयोर श्लेषविनाशौ तद्यपदेशात् ॥ ४।१।१३ ॥
पुष्टिमार्गीयभक्तस्य फलं निरूप्य मर्यादामार्गीर्यस्य तस्य फलं चिन्त्यते । तत्र तु ज्ञानपूर्वकत्वं भक्तेरावश्यकम् । कर्ममर्यादाया अपि १५ स्वकृतत्वात्तामनुल्लङ्घ्यैव भगवता फलं दीयते । तच्च नाभुक्तं क्षीयते । तद्भोगानुकूलकर्मणा स्वसजातीयतत्संतानजननादनिर्मोक्ष एव सर्वस्य संपद्यते । न च प्रायश्चित्तवज्ज्ञानस्य कर्मनाशकत्वं वक्तुं शक्यम् । तद्वत्तस्य तदुद्देशेनाविहितत्वात् । तथा कथने चान्योन्याश्रयः । दुरितस्य चित्ताशुद्धिहेतुत्वेन तन्नाशे ज्ञानोदयो यतोतो मर्यादामार्गे मुक्तिरनुक्तविषयेति २० प्राप्त उच्यते । तदधिगमे ब्रह्मज्ञाने सति तज्ज्ञानस्वभावादेवोत्तराघस्याश्लेषोसंबन्धः पूर्वस्य तस्य विनाशो भवतीत्यर्थः। अत्रोत्तरस्योत्पन्नस्याश्लेष इति नार्थस्तस्यात्मन्येवोत्पत्तेस्तदतिरिक्तस्य श्लेषस्याभावादतोनुत्पत्तिरेवार्थः । न चैवं मर्यादामार्गीयत्वभङ्गः । साधनं विना स्वरूपबलेनैव कार्यकरणे हि पुष्टिरिह तु नियतकर्मविरोधित्वस्वभावेन ज्ञानेनैव तथा संपत्तेः । अत २५ एव-तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे प्राप्मानः प्रदूयन्ते ( छां. ५ | २४ | ३ ) इति श्रुतिरग्निदृष्टान्तमाह । स्मृतिरपि - यथैधांसि