________________
१०
३०९
५ आप्रायणाधिकरणम् ।
[ अ. ४ पा. १ सू. १२
एवं भक्तेच्छयैव स्वरूपप्राकट्यमित्युक्त्वा लीलानाविष्करणमाविकरणं चापि तदिच्छ्यैवेत्याह ।
२०
अचलत्वं चापेक्ष्य || ४|११९ ॥
भक्तेच्छामपेक्ष्याचलत्वं चकाराचलत्वमपीत्यर्थः ॥ ४ ॥ १।९ ॥ स्मरन्ति च ॥ ४।१।१० ॥
केचन भक्ताः स्वरूपनिरपेक्षास्तत्स्मरणजनितानन्देनैव विस्मृतापवर्गान्तफला भवन्ति । चकाराच्छ्रवणकीर्तनादयोपि समुच्चीयन्ते । तदुक्तम्अथ ह वाव तव महिमामृतसमुद्रविपुषा सकृल्लीढया स्वमनसि निष्पन्दमानानवरतसुखेन विस्मारितदृष्टश्रुतसुखलेशाभासाः परमभागवताः ( भा. ६।९।३९ ) इति । अथवा - अहं भक्तपराधीनः (भा. ९/४/६३ ) इत्यादि - स्मृतिः पूर्वोक्ते प्रमाणत्वेनोक्ता ॥ ४।१।१० ॥ ३ ॥
४ यत्रैकाग्रताधिकरणम् |
यत्रैकाग्रता तत्राविशेषात् ॥ ४।१।११ ॥
अथेदं विचार्यते । बहिराविर्भावो येभ्यो येभ्यश्चान्तस्तेषां तेषां च १५ मिथस्तारतम्यमस्ति न वेति । तत्र निर्णयमाह । यत्र भक्तेष्वेकाग्रता भगवत्स्वरूपे प्रकट एवैकास्मिन् ग्राहकचित्तधारा न त्वन्तर्बहिर्विज्ञानं तत्रोभयोरन्तः पश्यतो बहिः पश्यतश्च भावे भगवत्स्वरूपे च विशेषाभावान्न तारतम्यमस्तीत्यर्थः ॥ ४।१।११ ॥ ४ ॥
५ आप्रायणाधिकरणम् ।
आप्रायणात्तत्रापि हि दृष्टम् ||४|१|१२ ॥
उक्तेर्थ एवायं संशयः । अन्तः प्राकट्यवतो यदा बहिः संवेदने सत्यपि पूर्वानुभूतभगवत्स्वरूपानुभवस्तदा पूर्वमन्तरमन्वभूवमधुना बहिरनुभवामीत्यनुव्यवसायो भवति न वेति । तत्र वैलक्षण्याद् भवितुमर्हतीति पूर्व : पक्षः । तत्र सिद्धान्तमाह । आप्रायणादिति । श्रीभागवते -- प्रायणं हि