________________
अ. ४ पा. १ सू. ६ ]
३०८
अणुभाष्यम् ।
काराभावात् पृथक् तदुक्तिरिति चेद् । न । सर्वत्र सदा तद्भावनायां तथानुभवस्यापि संभवात् । एवं सति वस्तुतः सर्वस्य ब्रह्मत्वं नाभिमतं किंतु यथादित्यादीनां तत्तथा तथा सर्वस्यापीति प्रतीकोपासनत्वमेव सर्वत्र । तेनैव फलमिति प्राप्ते प्रतिवदति । आदित्यादौ या ब्रह्मत्वमतय उच्यन्ते तास्तु ५ साकारस्यैव ब्रह्मणो व्यापकत्वात् तस्य प्रत्येकमप्यङ्गमुपासितं फलदमित्येकैकाङ्गविषयिण्यस्ता विधीयन्ते । उपपन्नं चैतत् । नहि साकारव्यापकब्रह्मणोङ्गं न ब्रह्मातो न प्रतीकोपासनत्वं तत्र । अपरं च । असौ वा आदित्यो देवमधु ( छां. ३ १ १ ) इत्युक्त्वा तस्य प्रतिदिक्करश्मीनां कृपावलोकनरूपाणां मधुत्वं निरूप्य तद् यत् प्रथमममृतं तद्वसव उप१० जीवन्त्यग्निना मुखेन न वै देवा अश्नन्ति नं पित्रन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति । त एतदेव रूपमभिसंविशन्त्येतस्माद् रूपादुद्यन्ति ( छां. ३।१०।२ ) इति पठ्यते । तथा च दर्शनमात्रेणान्यधर्मानिवृत्तिस्तस्यैव स्वतन्त्रपुरुषार्थत्वेन ज्ञानमतिशयितस्नेहजविगाढभावेन तत्रैव लयः । पुनस्तद्दर्शनानन्दानुभवार्थं भगवानेव कृपया पुनः पूर्वभावं संपादयतीति १५ तस्माद्रूपादुदयश्चैतत्सर्वं भगवदङ्गत्व एवोपपद्यत इत्यपि हेत्वाभिप्रेतोर्थो ज्ञेयः । न हि प्रतीकत्व इदं सर्वं संभवति भक्तिमार्गीयत्वादस्यार्थस्येति भावः । अङ्गानां भगवत्स्वरूपात्मकत्वेनैक्यमिति ज्ञापनायैकवचनम् । एतेन स्वरूपस्यैव फलत्वमुक्तं भवतीति मुख्यः सिद्धान्तः सूचितो भवति ॥ ४।१।६ ॥
२०
आसीनः संभवात् ॥ ४ ॥ १७ ॥
पूर्वसूत्रेण धर्ममात्रस्य फलत्वमुक्त्वाधुना धर्मिणः फलत्वं तत्साधनं चाह । संभवात् । उत्कटस्नेहात्मक साधनस्य संभवात्तदधीनः संस्तदग्र आसीनो भगवान् भवति । एतेन भक्तवश्यतोता || ४|१|७ ॥
1
एवं बहिः प्राकट्यमुक्त्वान्तरं तदाह ।
२.५
ध्यानाच्च || ४|१|८ ॥
भावनौत्कट्यदशायां व्यभिचारिभावात्मकसततस्मृतिरूपध्यानादपि हृदि प्रकटः सन्नासीनो भवतीत्यर्थः । तेन स्थैर्यमुक्तं भवति || ४|१|८ ॥