________________
३०७
३ आदित्याद्यधिकरणम् ।
[ अ.पा. १ सू० ६
तत्प्राकटचं• स्यात् तदुपगमनं चेत्यर्थः । एवं ज्ञानभक्त्योः फलसत्ता साधिता || ४ ||४ ॥
ननु - सर्वं खल्विदं ब्रह्म । ( छां. ३ | १४ | १ ) आत्मैवेद सर्वम् ( छां. ७/२५/२ ) इत्यादिश्रुतयः सर्वत्र ब्रह्मदृष्टिं मुक्तिसाधनत्वेनोप५ दिशन्ति । सा च प्रतीकात्मिकेवेति कथं प्रतीकोपासनस्य न मोक्षसाधकत्वमिति प्राप्त उत्तरमाह ।
१०
ब्रह्मदृष्टिरुत्कर्षात् ||४|१ | ५ ॥
सर्वत्र ब्रह्मदृष्टिर्न प्रतीकात्मिका सर्वस्य वस्तुतो ब्रह्मात्मकत्वात् । सा च नोपदेशसाध्यातो नोपदिश्यते । किंत्वनूद्यते । सा त्वधिकारोत्क - तू स्वत एव भवतीति प्रतीकोपासनस्य न मुक्तिसाधनत्वमिति साधुक्तम् । एतदेवोक्तमनेन सूत्रेण || ४|१|५ ॥ २ ॥
३ आदित्याद्यधिकरणम् ।
आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ४।१।६ ॥
छान्दोग्ये - अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं त्वमा१५ त्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाच ( छां. ५।१३।१ ) इति । अथ होवाचेन्द्रद्युम्नम् ( छ. ५।१४।१ ) इत्युपक्रम्य - त्वं कमात्मानमुपास्त इति वायुमेव भगवो राजन् इति होवाच ( छां. ५/१४/१ ) इति । एवमेवाग्रे प्रश्नभेदेन वक्तभेदेनाकाशाप्प्रभृतय आत्मत्वेनोपासनाविषया उक्ताः । तत्रैव - असो वा आदित्यो देवमधु ( छां. २० ३।१।१ ) इत्युपक्रम्यान्ते पठ्यते । य एतमेव विद्वानादित्यं ब्रह्मोपास्ते ( छां. ३।१९।४ ) इति । अत्रेदं चिन्त्यते अत्र प्रतीकोपासनत्वमस्ति न वेति । अस्तीति पूर्वः पक्षः । तथाहि । सर्वं खल्विदं ब्रह्म ( छां. ३।१४।१ ) इति श्रुतौ सर्वमन्य ब्रह्मत्वं तत्र बोध्यत इति न क्वचिस्पतीकोपासनमस्तीति हि पूर्व निरूपितम् । तचोक्तश्रुतिभिः प्रत्येकं तत्त्वे२५ नोपास्यत्वेनोक्त्वा.नोपपद्यते । ब्रह्मण एकत्वादेकप्रकारेणैवोपासनेन सर्वेषां फलसिद्धेः पृथक पृथगुती गौरवात् प्रयोजनविशेषाभावाच्च । तादृशाधि
1