________________
अ. ४ . १सू. ३]
अणुभाष्यम् ।
३०६
त्वेन लीलां करोति तदा स्वप्राप्त्यनुकूलप्रयत्नवन्तं विधायात्यानं प्रापयति । ननूक्तं दुरतिक्रमः कर्मस्वभाव इति । नैष दोषः । न ह्यन्नरसपाकाय जग्धमौषधमपि गौरवाय भवति । तेन न तन्निवृत्तिर्वा । व्यापादनैकस्वभावमपि विषमाशीविषं तदपगमपटुतरनिगमसंगमो नापगमयति वा । ५ तथा भगवदर्पितं तदर्थं च कृतं कर्म न कर्मनाशाय भवतीति न वक्तुं शक्यम् । कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ( भा. ११।१४४ ) इति वाक्यात् । अग्राह्यत्वग्राह्यत्वविरोधापहारस्तु जीवसामर्थ्यश्वरेच्छाभ्यां पुरैव कृत इति नाधिकमत्र निरूप्यम् । इतिशब्दो हेत्वर्थे । तथाच भगवानात्मा भवति सर्वेषां जीवानामतो हेतोरुक्तरीत्या तदनुग्रहेण तमुपग१० च्छन्ति । ज्ञानमार्गेङ्गीकृतास्त्वात्मत्वेनैव ज्ञानादुपसमीप एव गच्छन्त्यु
करीत्याक्षरात्मके तत्रैव प्रविष्टा भवन्तीत्यर्थः । भक्तिमार्गेङ्गीकृतास्तु साक्षान् प्रकटे पुरुषोत्तमे सति तद्भजनार्थमुपसमीपं गच्छन्तीत्यर्थः ।
एवं श्लेषोक्तिरियमिति ज्ञायते । संप्रदायानुवृत्तिरपि भगवदिङ्गितेत्येतादृशाः स्वयं येन मार्गेण फलं प्राप्तास्तं मार्गमन्यानपि ग्राहयन्त्युप१५ देशैरत्रोभयत्राप्यात्मत्वमेव हेतुरन्यथात्मारामस्य सर्वनिरपेक्षस्यैवंकरणासंभवेन मोक्षमार्गाप्रसिद्धिरेव स्यात् । तस्मात् सर्वथानावृत्तिरेव श्रुत्याभिमतेति ज्ञेयम् ॥ ४।१॥३॥ नन्वात्मत्वेनोक्तिरुपासनार्थेति नोक्तं साधीय इत्यत उत्तरं पठति।
न प्रतीकेन हि सः॥४॥१४॥ २० अतद्रूपे तत्त्वेनोपासनं हि प्रतीकमित्युच्यते । तथा च तादृशेन
तेन स मोक्षो न भवतीत्यर्थः । श्रुतिसिद्धत्वान्नास्ति मोक्ष इति न वक्तुं शक्यमिति भावः । अथवात्मत्वेनोक्तिरुपासनार्थेति वदन् वादी वक्तव्यः । फलार्थमेव तत् । फलं च श्रुत्युक्तस्तत्प्रवेश एवेति त्वयापि वाच्यम् ।
एवं सत्यादौ ज्ञानमार्गेनुपपत्तिमाह । न प्रतीकेनात्मभूते ज्ञानिन उपगमः २५ पूर्वोक्तः प्रवेशः संभवतीति शेषः । भक्तिमार्गेपि तामाह । न हि स इति । न हि प्रतीकोपासने स लोकवेदप्रसिद्धः पुरुषोत्तमोस्त्युपास्यत्वेन येन 7-M, A and Cread अगृह्यत्त्वगृह्यत्व for अग्राह्यत्वग्राह्यत्व ।