________________
३०५
१ आवृत्यधिकरणम् ।
[ अ. ४ पा. १ सू. ३
स्फुरति । तदा स्वानन्दांशस्याप्याविर्भावाद् ब्रह्मभूतः सन्नात्मत्वेनैव ब्रह्म स्फुरितमिति तदानन्दात्मकः संस्तमनुभवति । एवं स्थितः प्रारब्धसमाप्तौ देहापगमे तत्रैव प्रविष्टो भवति । सर्वोपकारीति पदार्थमपि तस्मै भगवता ज्ञानं दत्तमिति प्रवचनमपि तस्य फलान्तःपातीत्यधिकारिण्युपस्थिते ५ तथैवोपदिशति च । एतदेवाह । आत्मेत्यादिना । उप समीपे गमनं प्रवेश इति यावत् ।
अथवा । ननु ज्ञानभक्त्योरनावृत्तिः फलमत उत्तमे ते न तु कर्मेत्याशयेन कर्मणः फलमावृत्तिरिति यन्निरूपितं तत्रेदं चिन्त्यते । न स पुनरावर्तते ( का. ३ ) इति श्रुतिः सर्वथानावृत्तिमाहोत सावधिकीं ताम१० मरशब्देन तन्निवृत्तिमिव । किमत्र युक्तम् । सावधिकीमेवेति । तथाहि पूर्वकर्मनैयत्यस्य त्वयाप्यङ्गीकार्यत्वात्तस्य प्ररोहैकस्वभावत्वात्तस्य दुर
क्रमत्वात्तत्फलानुभवस्यावश्यकत्वात् ।
अपि च- य एनं विदुः (बृ. ४।४।२२ ) इति श्रुतेः सति ज्ञाने हि सा । यतो वाचः (तै. २/९ ) अगृह्यो न हि गृह्यते (बृ. ४।४।२२ ) १५ इत्यादिश्रुतिभ्यो ब्रह्मज्ञानासंभवात् । इत एव भक्तिरपि प्रत्युक्ता वेदितव्या । ज्ञानाविषये स्नेहासंभवात् ।
०
किंच - सर्वस्य वशी सर्वस्येशान : (बृ. ४/४/२२ ) इत्यादि - श्रुतिभ्यो यस्यावतारकर्माणि गायन्ति स्मदादयः । न यं विदन्ति तत्त्वेन ( भा. २/६/३७ ) इत्यादिस्मृतिभ्यश्व का प्रत्याशा जीवितस्यातिहीनस्य •• तत्मानौ । अत एवोपदेशासंभवोपीति प्राप्ते प्रत्याह । आत्मेतीत्यादिना । तुशब्दः पूर्वपक्षनिरासकः । अत्रायमाशयः । सत्यमुक्तं भवता । तत्रोच्यते । यथागृह्यत्वातिमहत्त्वादिधर्मा भगवति सन्ति तथा सर्वात्मत्वमपि । य आत्मनि तिष्ठन् इत्यादिश्रुतिष्वात्मत्वेनैवोक्तेः । सर्वधर्माश्रयत्वेपि यदा यं धर्मं पुरस्कृत्य लीलां करोति तत्कार्यमेव तदा ५ संपद्यते । हितृकारित्वस्वभावत्वात्तस्य । एवं सति यस्मिन् पुरुषं यदात्म
•
1 - M, A and Com. ब्रह्म before स्फुरितम् । ३९ [ अणुभाष्य ]