________________
अ. पा. १ सू.२
अणुभाष्यम् ।
३०४
अन्यथा सकृदुपदेशेनैव तदवगमेप्यसकृदुपदेशो व्यर्थः स्यादतस्तथेत्यर्थः । वाजसनेयिशाखायां पठ्यते । एवमेवाय५ शारीर आत्मै. भ्योङ्गेभ्यः संप्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव (बृ. ४/३/३६ ) इति तत्रैव पुनस्तेन प्रद्योतेनैष आत्मा निष्क्रामति इत्युप५ क्रम्य पठ्यते - तं विद्याकर्मणी समन्वारमेते पूर्वप्रज्ञा च (बृ. ४।४।२ ) इति । तत्रैवैतदनुपदमेव तद्यथा तृणजलायुका (बृ. ४/४/३ ) इत्युपक्रम्य पठ्यते - एवमेवायं पुरुष इद शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतर५ रूपं तनुते पित्र्यं वा गान्धर्वं वा ब्राह्मं वा प्राजापत्यं वा दैवं वा मानुषं वान्येभ्यो वा भूतेभ्यः (बृ. ४।४।४ ) इति । तत्रैवाग्रे पठ्यते । १ प्राप्यान्तं कर्मणस्तस्य यत्किंचेह करोत्ययम् । तस्माल्लोकात्पुनरेत्यस्मै - लोकाय कर्मणे (बृ. ४/४/६ ) इति ।
1
95
-
अत्र हेत्वन्तरमाह । लिङ्गाच्च । वेदानुमापकत्वेन स्मृतिर्लिङ्गमित्युच्यते । सा च भगवद्गीतासु त्रैविद्या माम् (भ. गी. ९/२० ) इत्युपक्रम्य पठ्यते - एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते १५ ( भ.गी. ९।२१ ) इति । आब्रह्मभुवनांल्लोकाः पुनरावर्तिनोर्जुन ( भ.गी. ८ । १६ ) इति च ।
अथवा यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन (बृ. ४/४/५ ) इति श्रुतिर्वर्तमान जन्मकर्मणोः पूर्वजन्मसंबन्धिकर्मानुमापकत्वं वदतीति ३. कर्मिणः पुनर्जन्मावश्यकमिति ज्ञायते । एवं सति लित्वेन निरूपणादित्यर्थः संपद्यते । निवृत्तिमार्गीयस्यापि तस्य ज्ञानोपकर्तृत्वमात्रं न तु जन्मनिवर्तकत्वं मानाभावात् ४।१।२ ॥ १॥
२५
२ आत्माधिकरणम् ।
एवं कर्मफलं विचार्य ज्ञानफलं विचारयति ।
आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ४|१|३ ॥ पूर्वार्थनिरूपणव्यवच्छेदाय तुशब्दः । ज्ञानिनो हि भगवन्तमात्मत्वनेवोपासते । तस्या नैरन्तर्येने कजन्मभिस्तथैव तेषां हृदि भगवान्