________________
३०३
१ आवृत्त्यधिकरणम्।
[अ. पा. १ .२
आत्मा तत्त्वमसि श्वेतकेतो (छां. ६।८।७ ) इति वाक्येन जडजीवयोब्रह्मात्मत्वं नवकृत्व उपदिष्टवान् । तथा च सकृदुपदेशेनैव चेदर्थसिद्धिः स्यात्तदैकमेवार्थमेकस्मा एकदैवासकृन्नोपदिशेत् । प्रयोजनाभावात् । एतेनावघातवदन्तःकरणदोषनिवर्तनं दृष्टद्वारमन्येषामुपदेशानां चरमस्य तस्य ५ ज्ञानसाधकत्वमिति मन्तव्यम् ॥ ४।१।१ ॥ अत्रैव हेत्वन्तरमाह।
लिङ्गाच्च ॥४॥१॥२॥ श्रुत्यनुमापकत्वेन स्मृतिर्लिङ्गमित्युच्यते । सा च-यथा यथात्मा परिमृज्यतेसौ मत्पुण्यगाथाश्रवणाभिधानैः । तथा तथा पश्यति तत्त्वसूक्ष्म १० चक्षुर्यथैवाञ्जनसंप्रयुक्तम् ( भा. ११।१४।२६) इत्यादिरूपा तदावृत्तिमेव फल साधकत्वेनाह । अत्र दृष्टान्तेनापि दृष्टद्वारकत्वं श्रवणादीनां सूच्यते-- आत्मा वारे द्रष्टव्यः (बृ. ४।५।६) इति पदेन श्रवणादीनां फलात्मकं दर्शनं पूर्वमुक्त्वा श्रोतव्यो मन्तव्य इत्यादिना तत्साधनानि पश्चाद्यदाह
तेनात्मनः परोक्षमपि ज्ञानमवान्तरफलरूपमिति । भक्तिमार्गे परमफलरूप१५ तत्सजातीयत्वेन च फलमध्यपात्येवेति श्रुत्यभिमतमिति ज्ञायते । तेन सूत्रकृदपि फलप्रकरणेपि साधनविचारं चकारेति निगूढाशयः । तथापि शाब्दक्रमादार्थक्रमो बलीयानिति न्यायाद् द्रष्टव्य इति पदस्य पश्चात्संबन्धे तूक्तरीतिविसरं प्राप्नोतीति प्रकृतविचारस्य फलप्रकरणासंगतत्व
मापततीति प्रकारान्तरेण सूत्रार्थ उच्यते । आवृत्तिरसकृदुपदेशात् । २० श्रुतिर्हि कर्मज्ञानभक्तीः साक्षात्परम्पराभेदेन पुरुषार्थसाधनत्वेन हीन
मध्यमोत्तमाधिकारिणः प्रति कर्तव्यत्वेन प्रतिपादयति । तत्र तेषां स्वरूपं तृतीयेध्याये बादरायणेन प्रतिपादितम् । अथ तुरीयेध्याये तेषां फलं चिन्त्यते । तत्रादौ कर्ममार्गस्य फलमुच्यते। ज्ञानभक्त्योरेव क्रमेणोत्तमात्युत्त
मफलकत्वमतस्तत्साधनत्वेनैव तत् कर्तव्यं न तु स्वातन्त्र्ये गेति ज्ञापयितुम् । २, आवृत्तिरिति । कर्ममार्गस्यावृत्तिः पुनर्जन्मफलं तदप्यसकृत् । इदं परमावृ
त्योभयत्रापि संबध्यते । तथा चात्र प्रमाणापेक्षायां तदाह हेतुत्वेनासकृदुपदेशादिति । श्रुतौ कर्ममार्गे पुनर्जन्मासकृदुपदिश्यते यतः ।