________________
३५१
२ ब्राह्माधिकरणम्। [अ. पा. "सू. १२ द्वादशाहवदुभयविधं बादरायणोतः॥४।४।१२॥
ब्रह्मणा सह सर्वकामाशनप्रयोजकं शरीरं शरीरत्वस्य भूतजन्यत्वव्याप्यत्वात्तदभावेनाशरीररूपं तद्भोगायतनत्वेन शरीररूपमपीति बादरायण आचार्यों मन्यते । अत्र हेतुरत इति । तथाविधश्रुतेरित्यर्थः । ५ तथाहि । सुखं त्वेव विजिज्ञासितव्यमित्युक्त्वा तत्स्वरूपमाह । यो वै भूमा तत्सुखम् ( छां. ७।२३।१ ) इत्युपक्रम्याय उच्यते । यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा ( छां. ७।२४।१ ) इत्यनेन केवलभावविषयत्वं पुरुषोत्तमलक्षणमुक्त्वा केवलभाववतो भक्तस्य विप्रयोगगसामयिकी व्यवस्थामाह स एवाधस्तात् स उपरिष्टात् स पश्चात्स १० पुरस्तात् (छां. ७२५।१ ) इत्यादिना । ततः- स वा एष एवं पश्य
नेवं मन्वान एवं विजानन् ( छां. ७।२५।२ ) इति पूर्वावस्थामनूद्य संयोगावस्थामाह । आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः (छां. ७२५।२) इति वाक्येन सोभुत इति श्रुतिसंवादिनमर्थमुक्त्वा
भक्तस्वरूपमाह । तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत १५ आत्मतः प्राणः (छां. ७।२६।१ ) इत्युपक्रम्य-आत्मत एवेद सर्वम्
(छां. ७२.६।१) इति । तेनाशरीरत्वं सिध्यति । अव्ययप्रयोगेणाविकृतादेव पुरुषोत्तमात्प्राणाद्याविर्भाव उच्यते । अत्र ल्यब्लोपे पञ्चमी । पूर्व विरहदशायां प्राणादयो भगवत्येव लीना आसंस्ततस्तत्प्राकट्ये तत एव प्राणादयोपि संपन्ना इति तत्प्राप्तेर्निमित्तत्वं यतो विभूतिरूपाणामपि पुरु२० षोत्तमे लयो नानुपपन्नः । आत्मरतिरित्यादिना सोचत इत्यनेन च
शरीरत्वम् । जैमिनिरप्यत एव ब्राह्मणेति मनुते । एकस्य विरुद्धोभयध• र्मवत्त्वममन्वानं प्रति वैदिकं दृष्टान्तमाह । द्वादशाहवदिति । यः कामयेत प्रजायेयेति स द्वादशरात्रेण यजेत ( तै. सं. ७।२।९ ) इति चोदनया द्विरात्रेण यजेत (तै. सं. ७१।४ ) इत्यादिवन्नियतकर्तृकत्वेनाहीनत्वं २५ गम्यते । द्वादशाहमृद्धिकामा उपेयुः । य एवं विद्वासः सत्रमुपयन्ति
( तै. सं. ७५।१ ) इति श्रुत्या च सत्रत्वं बहुकर्तृकस्य गम्यते । एवमेव द्वादशाङ्गशरीरेन्द्रियप्राणान्तःकरणात्मभिरश्नुत इति सत्रतुल्यत्वम् । वस्तुतो 22-C reads सर्वभूत for भूत ।