________________
३५२
अ. पा. ४ सु. १२ ]
अणुभाष्यम् ।
भगवद्विभूतिरूपत्वेन ब्रह्मात्मत्वेनैकरूपत्वमतो द्वादशाहवदुभयविधम् । सत्रे प्रत्येकं चेतनानां यजमानानां फलभागित्ववदत्रापि तादृग्भक्तदेहादीनामपि ब्रह्मात्मकत्वाच्चेतनत्वमेवेत्यप्यनेन दृष्टान्तेन ज्ञाप्यते । अत एव श्रीभागवते - देहेन्द्रिया सुहीनानां वैकुण्ठपुरवासिनाम् ( भा. ७११।३४ ) ५ इति गीयते || ४|४|१२ ॥ २ ॥
३ तत्त्वभावाधिकरणम् । तत्त्वभावे संध्यवदुपपत्तेः ॥ ४|४|१३ ॥
अथेदं चिन्त्यते । भगवत्स्वरूपे प्राकृतशरीर इवावस्था दृश्यन्ते तत्कालीनैः पुंभिरिति कथमप्राकृतत्वमुपपद्यत इति तत्रोपपत्तिमाह । तद्द१० र्शनस्य वास्तववस्तुविषयकत्वव्यवच्छेदेन पूर्वपक्षव्युदासाय तुशब्दः । तत् प्राकृततुल्यदर्शनमभावे तथात्वस्याभाव एव भवति । न तु तत्र प्राकृता धर्माः सन्ति । नन्वविद्यमानानामर्थानां कथं दर्शनमुपपद्यत इत्यत आह । संध्यवदिति । स्वप्ने यथा वासनावशादविद्यमानानामप्यर्थानां भवति तथा भगवदिच्छावशात्तत्रापि प्राकृततुल्यत्वदर्शनस्योपपत्तेर्न प्राकृतत्वं तत्र ज्ञेय१५ मित्यर्थः । तथा च श्रुतिः । संध्यं तृतीय स्वप्नस्थानं तस्मिन् संध्ये स्थाने तिष्ठन्नभे स्थाने पश्यतीदं च परलोकस्थानं च । अथ यथाक्रमोयं परलोकस्थाने भवति तमाक्रममाक्रम्योभयान् पाप्मन आनन्दांश्च पश्यति । स यत्रायं प्रस्वपिति (बृ. ४1३1९ ) इत्युपक्रम्य स्वयं विहृत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपित्यत्रायं पुरुषः स्वयंज्योतिर्भव२० ति न तत्र रथा न रथयोगा न पन्थानो भवन्ति (बृ. ४ | ३ | १० > इत्यादिरूपा । एवमेव भगवानासुराणां प्राकृतगुणे तमस्येव दुःखात्मके लयं चिकीर्षुः स्वस्मिन् प्राकृतत्वबुद्धिसंपादनाय तादृशीमिव लीलां दर्शयत्यतो न प्राकृतत्वशङ्कागन्धोप्यत्र । अत एव भगवतोक्तम् - मामात्मपरदेहेषु प्रद्विषन्तोभ्यसूयकाः (भ. गी. १६ । १८ ) इत्युपक्रम्य - ततो यान्त्य२५ धमां गतिम् ( भ. गी. १६।२० ) इति । तेषामासुरत्तेन मुक्त्यनधिकारित्वात् तथाकरणमतः सुष्टुतं संध्यवदुपपत्तेरिति ॥ ४|४|१३ ॥