________________
३ तत्त्वभावाधिकरणम्। [अ. पा. 'धू. १४
भावे जाग्रदत् ॥४॥४॥१४॥ लौकिकवद्भासमाने लीलापदार्थे यदर्शनं भक्तानां तत्तु भावे विषये विद्यमाने सति भवति । अत्र दृष्टान्तमाह । जाग्रदत् । यथा मोहाभाववतः पुंसः सत एवार्थस्य दर्शनं तथेति । एताभ्यां सूत्राभ्यामेतदुक्तं भवति । ५ सोश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चिता ( तै. २।१) इति श्रुत्या भक्तकामपूरणाय भगवान् लीलां करोतीति गम्यते । यद्दर्शनश्रवणस्मरणैर्भक्तानां दुःखं भवति तादृशीमपि तां करोतीति श्रूयते । यथा सौभयुद्धे मोहवचनानि । हस्तादायुधच्युतिः । प्रभासीयलीला च ।
उक्तरीत्या सोचत इति श्रुत्या परब्रह्मत्वमवगम्यते । उक्तलीलया तद्वै१० परीत्यं च । एवं सत्येकस्या वास्तवत्वमन्यस्या अवास्तवत्वं वाच्यम् । ते
ते धामान्युष्मसि ( तै. सं. १।३।६।१ ) विष्णोः कर्माणि पश्यत (तै. सं. ११३।६।२ ) तद्विष्णोः परमं पदम् (तै. सं. १।३।६।२ ) ताद्विप्रासो विपन्यवः ( ऋ. सं. १।२२।२१ । इत्यादिश्रुतिभिः । सहस्रशीर्ष
देवं विश्वाक्षं विश्वशंभुवम् । विश्वं नारायणं देवमक्षरं परमं पदम् । १५ विश्वतः परमं नित्यं विश्वं नारायण हरिम् । विश्वमेवेदं पुरुषस्तद्विश्व
मुपजीवति । पतिं विश्वस्यात्मेश्वर५ शाश्वतं शिवमच्युतम् (म. ना.१३।१) इत्यादिभिश्च शुद्धब्रह्मणस्तद्विपरीतदर्शनेवश्यं हेतुर्वांच्यः । स त्वासुरव्यामोहनमेवेति पूर्वसूत्रेणापपादितः । भक्तभ्यः स्वरूपानन्ददानाय-लोकवत्त
लीलाकैवल्यम् (ब. सू. २।१।३३ ) इति न्यायन या लीलाः करोति २० यथा रिङ्गणादिलीला भगवतो नैसर्गिकधर्मरूपानन्दात्मकत्वेन विद्यमाना
एव ता भक्ताः पश्यन्तीति द्वितीयसूत्रेणोक्तम् । अत एव लीलाया 'अनेकरूपत्वाद् ब्रह्मणश्च श्रुतौ सैन्धवदृष्टान्तेनैकरसत्वनिरूपणाच्छद्धब्रह्मधर्मत्वं न संभवतीति शङ्कानिरासाय कैवल्यमित्युक्तम् ।
साक्षी चेता केवलो निर्गुणश्च (श्वे. ६।११) इत्यादि६५ श्रुतिषु यान्यधर्मराहित्यलक्षणा केवलतोक्ता सा लीलात्मिकव लीलाविशिष्टमवं शुद्धं परं ब्रह्म न कदाचित्तद्रहितमित्यर्थः पर्यवस्थति । तेन स्वरूपात्मकत्वं लीलायाः पर्यबस्थति तेन च नित्यत्वम् । __• ५ [ अणुभाष्य ]