________________
अ. . पा. सू. १) अणुमायम् ।
३५४ एतद्विद्वन्मण्डने प्रपञ्चितम् । अथवा लीलैव कैवल्यं जीवानां मुन्तिरूपम् तत्र प्रवेशः परमा मुक्तिरिति यावदित्यर्थः ॥ ४।४।१४ ॥ ३॥
४ प्रदीपाधिकरणम् । प्रदीपवदावेशस्तथाहि दर्शयति ॥ ४।४।१५॥ ५ ननु पूर्णज्ञानक्रियाशक्तिमता ब्रह्मणा तुल्यभावेन तत्रापि प्रधानभावं प्राप्य कामभोगकरणमपूर्णज्ञानक्रियावतो भक्तस्यानुपपन्नभित्याशङ्कायां तत्रोपपत्तिमाह । नहि तदा नैसर्गिकज्ञानक्रियाभ्यां तथा भोक्तुं शक्तो भवति किंतु भगवांस्तस्मिन्नाविशति यदा तदायमपि तथैव भवतीति सर्वमुपपद्यते । एतदेवाह । प्रदीप१० वदिति । यथा प्राचीनः प्रकृष्टो दीपः स्नेहयुक्तायां वामर्वाचीनायामाविष्टः
स्वसमानकार्यक्षमां तां करोति स्नेहाधीनस्थितिश्च भवति स्वयं तथात्रापीत्यर्थः। अत्र प्रमाणमाह । तथाहि दर्शयति श्रुतिः । भर्ता संभ्रियमाणो बिभर्ति । एको देवो बहुधा निविष्टः ( तै. आ.३।१४) इति । सर्वान् कामानित्युक्तत्वाद् यस्य कामस्य भोगो यथा निवेशे सात १५ तत्तथा तदा निवेश इति बहुधा निवेश उक्तः । अयं निवेशो नान्तर्या
मित्वेन तस्यैकधैव प्रवेशात् । निसर्गतः सर्वेषां जीवानां भगवान् भवत्येव प्रभुर्यद्यपि तथापि यं स्वीयत्वेन वृणुते तस्य विवाहितः पतिरिव भर्ता सन् वरणजस्नेहातिशयेन भक्तेनापि भ्रियमाणः सन् स भक्त इव स्वय
मपि तं स्वस्मिन् बिभर्ति । अत एव स्नेहराहित्येनायोगोलकादिकं विहाय २० प्रदीपं दृष्टान्तमुक्तवान् व्यासः । अत एव देवपदमुक्तम् । स्वरूपानन्द
दानाद्भावोद्दीपनात् पूतनादिमुक्तिदानेन स्वमाहात्म्यद्योतनाद्वैकुण्ठादिस्थितेश्च । तदुक्तं निरुक्ते-दिवो दानाद्वा । दीपनाद्वा । द्योतनाद्वा । द्यस्थानो भवतीति वा यो देवः (नि. ७१५) इति । किंच भक्तानां
कामभोजनार्थं क्रीडाकरणात् क्रीडायामेव जयेच्छाकरणाद्भक्तैः सह व्यव• ५ हारकरणाद् भक्तेषु स्वमाहात्म्येच्छादिद्योतनाद्-न पारयेहं (भा.१०।३०।
३७ ) न त्वादृशीं प्रणयिनीम् (भा.१०।६०।५५) इत्यादिभिः स्तुतिकर