________________
३५५
४ प्रदीपाधिकरणम् ।
[अ. पा. सू. १६
णात् भक्तमपत्तिदर्शनेन कालीयदमनादौ मोदकरणात् तेष्वेव भक्तिमदकरणात् ते स्वप्नेपि प्रियमेव पश्यन्तीति स्वप्नकरणात्तेषां कान्तिकरणादिच्छाकरणाद्वा तन्निकटे गमनादपि देवः । तदुक्तं धातुपाठे-दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु (पा. धा. पा. दि. १) ५ इति । एवं सति युक्तमेव तेषां तथात्वमिति हिशब्देनाह ॥ ४।४।१५ ॥
ननु-अस्थूलमनण्वह्रस्वम् (बृ. ३८८ ) इत्याद्यनन्तरं पठ्यते । न तदश्नोति कञ्चन । न तदनोति कश्चन (बृ. ३१८८) इति । उक्तश्रुतौ च ब्रह्मणा सह जीवस्य भोग उच्यते । तथा च सगुणनिर्गुणभेदेन विषयभेदोवश्यं वाच्यो विरोधपरिहारायेत्यत उत्तरं पठति । १. स्वाप्ययसंपत्योरन्यतरापेक्षमाविष्कृतं हि ॥४॥४॥१६॥
इहायमाशयः । प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः (ब्र. सू. ३१२।२२) इत्याद्यधिकरणैः-परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ( श्वे. ६।८) इत्यादिश्रुतिभ्यश्च प्राकृता
एव धर्मा निषिध्यन्ते ब्रह्मण्यप्राकृता एव बोध्यन्तेन्यथा तद्बोधनमेव न १५ स्यानिषेधकवाक्य एव तद्वोधनमपि न स्यात्-एतस्यैवाक्षरस्य प्रशासनम्
(बृ. ३।८।९) इत्यादिरूपमतोचिन्त्यानन्तशक्तर्भगवतः का वा कार्याक्षमता यया प्राकृतान् गुणानूरीकुर्यादतो निर्गुणमेव सदा। सर्वत्र भगवद्रूपमिति मन्तव्यम् । एवं सति-तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा
उपर्युपरि संचरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं २ ० ब्रह्मलोकं न विदन्ति ( छां. ८।३२) इति च्छान्दोग्यश्रुतेः प्रस्वापदशायां
न कश्चिद् ब्रह्माश्नोति तच्च न कंचनेति तद्विषयिणी निषेधिका श्रुतिः। ब्रह्मविदाप्नोति परम् (ते. २।१) इति श्रुत्युक्तपरब्रह्मप्राप्तिदशाविषयिणी भोगबोधिका सेति न विरोधगन्धोपि । एतदेवाह । स्वाप्ययः प्रस्वापः ।
स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते (छां.६।८।१) इति श्रुतेः । संप२५ त्तिर्ब्रह्मसंपन्तिरुक्तरीत्या पुष्टिमार्गीयो मोक्ष एतयोरन्यतरापेक्षमुभयश्रुत्युक्त
मित्यर्थः । भगवत्कर्तृकभोगस्य लीलारूपत्वात् तस्याश्च-लोकवत्तु लीला