________________
अ. ४ प ४ . १६ ]
अणुभाष्यम् ।
३५६
कैवल्यम् (ब. सू. २।१।३३ ) इत्यत्र मुक्तित्वेन निरूपणात् तत्याप्तेः संपद्रूपत्वं युक्ततरमिति हिशब्दार्थः || ४|४|१६ ॥ ४ ॥
५ जगद्वयापाराधिकरणम् ।
जगद्यापारवर्ज प्रकरणादसंनिहितत्वाच्च ॥ १४|४|१७ ॥
1
ब्रह्मणा सह भोगकरणं लौकिकव्यापारघुतमुत नेति संशये ततमिति पूर्वः पक्षस्तथा सति मुक्तित्वभङ्गात् पूर्वोक्तमनुपपन्नमिति प्राप्त आह । जगदित्यादि । पूर्वोक्तस्य जगत्संबन्धी लौकिको यो व्यापारः कायवाङ्मनसां तद्वर्जं तद्रहितं भोगकरणम् । तत्र हेतू आह । प्रकरणादसंनिहितत्वाच्चेति । ब्रह्मविदाप्नोति परमित्युपक्रमेण मुक्तिप्रकरणात तत्र लौकिकव्यापारोसंभावितः । किंच । लीलायाः कालमायाद्यतीतत्वेन प्राकृतं जगद दूरतरमितोपि हेतोर्न तत्संभवः । कदाचिल्लोके लीला प्रकटनेच्छायां तदधिष्ठानत्वयोग्ये मथुरादिदेशेतिशुद्धे गोलके चक्षुरिन्द्रियमिव स्थापयित्वा लीलां करोति । तदापि लीलामध्यपातिनां न लौकिकव्यापारसंभवः । न हि चक्षुरिन्द्रियं गोलककार्यं करोति न वा १५ तन्नाशे नश्यति । एतत्सर्वं दिवीव चक्षुराततम् (ऋ. १/२२ । २० ) इति श्रुतिव्याख्याने विद्वन्मण्डने प्रपञ्चितम् । किंच छान्दोग्ये - भूमैव सुखं भूमा त्वेव विजिज्ञासितव्यः ( छां. ७१२३३१ ) इत्युक्त्वा भूम्नो लक्षणमाह । यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद् विजानाति स भूमा ( छां. ७/२४|१ ) इति । अत्र २० नान्यद्विजानातीत्येतावतैव चारितापि यदिन्द्रियव्यापारो निषिद्धस्तत्राप्यन्यविषयकस्तेन भगवद्विषयकः स सिद्धो भवतीति जगद्व्यापाररा हित्यं सिद्धम् । तत्र तेन भगवत एव स्वतन्त्रं फलत्वमुक्तं भवति । न हि सुखस्यान्यत् प्रयोजनमस्ति ॥ ४|४|१७ ॥
१०