________________
3५७
५ जगद्व्यापाराधिकरणम्। [H. पा. ५. १९
• प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डल
स्थोक्तेः॥४॥४॥१८॥ नन्वेतत्प्रकरण एव छान्दोग्ये पठ्यते । सर्व५ हि पश्यति ( छां. २६।२) इति सर्वविषयकप्रत्यक्षमुपदिश्यत इत्यन्यविषयव्यापाररा५हित्यं नोपपद्यत इत्याशक्य समाधत्ते । आधिकारिकेत्यादिना । अत्रेदमुच्यते । सोश्नुते (तै. २।१) लोकवत्तु लीलाकैवल्यम् (ब. सू. २।१।३३) इत्यादिभिर्नित्यलीलामध्यपातित्वं तस्योच्यते । नान्यत् पश्यति ( छां. ७।२४।१ ) इत्यादिश्रुतिवशाज्जगद्व्यापारवर्जं भोगकरणं पूर्वसूत्रेणोक्तम् ।
अत्रेदं विचार्यते । नान्यत्पश्यतीति प्रकरण एव सर्व५ ह पश्यति ( छां. ५ ० ७।२६।२ ) इति सर्वाविषयकं दर्शनमुच्यते तत् कथं पूर्वोक्तमुपपद्यत
इति । किं च । एकस्यैव भक्तस्य देशकालभेदेन क्रियमाणानेकलीलासंबन्धित्वं भवति । तच्च लीलानित्यतायां न घटते । यतस्तत्तद्देशतत्तत्कालसंबन्धिनी सा नित्या । एवं सत्येकस्यानेकरूपत्वं जीवस्य न संभवतीति तन्नित्यत्वमपि न सिध्यतीति । तत्रोच्यते । १५ श्रुतौ सर्वपदेन न जगदुच्यते किंतु यस्यां यस्यां लीलायां देशकालभेदेन क्रियमाणायामधिकृतो य एको भक्तस्तस्यैव तावन्ति रूपाणि सन्ति तान्याधिकारिकाणीत्युच्यन्ते । तेषां मण्डलं समूहस्तत्र स्थितवस्तुमात्रमुच्यत इति नानुपपन्नं किंचित् । अत एवाग्रे पठ्यते । सर्वमाप्नोति सर्वशः
( छां. ७।२६।२ ) इति । स एकथा भवति त्रिधा भवति पञ्चधा भवति २० सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः । शतं च दश चैकश्च सहस्राणि
च विंशतिः ( छां. ७।२६।२ ) इति । यथा मण्डलवर्तिषु पुंसु नैकस्य प्राथम्येन प्राधान्यं वक्तुं शक्यं तथैतेष्वपि रूपेण्विति ज्ञापनाय मण्डलपदमुक्तम् ॥ ४।४।१८॥
विकारावर्ति च तथाहि स्थितिमाह ॥ ४।४।१९ ॥
+-थ reads विषयक for विषय ।