________________
'अ. पा. मु. १९] अणुभाज्यम् ।
३९८ नन्वेवं सति श्वस्त्वद्नेहमायास्य इति प्रभुणोक्ते तदाशया तत्स्थितिर्नोपपद्यते । नित्यत्वाल्लीलायास्तस्य कालस्य तदागमनस्य च तदापि वर्तमानत्वात् । तथा प्रभक्तिरपि नोपपद्यत इत्याशङ्कय समाधत्ते । इह भगवल्लीलाप्रकृतिस्तद्विरुद्धोर्थो विकार इत्युच्यते । तत्र न वर्तते तज्ज्ञानं ५ तादृशं च भवति यत्स्वरूपं प्रति तथा वदति तस्य स्वगेहे तदा भगवस्थितिज्ञानं न भवतीत्यर्थः । उपलक्षणं चैतदतो यद्देशकालावशिष्टा यादृशी या लीला तस्यास्तादृश्या एव तल्लीलामध्यपातिनो भक्तस्य ज्ञानं नान्यविषयकमिति ज्ञेयम् । अत एवं द्वितीयस्यापि मह्यं पूर्वमुक्तमासीत्ते
नागत इत्येव ज्ञानं भवति । तदैव हि रसोदयोतो रसस्वरूपमध्यपातित्वा१० लीलाया रसस्य च भगवंदात्मकत्वाद्भगवद्रूपत्वेन सर्वभुपपद्यते लीलायाम् ।
अत्र प्रमाणमाह । तथाहि स्थितिमाहेति । सर्वमाप्नोति सर्वशः ( छां. ७।२६।२ ) इति श्रुतिरेकस्यैव भक्तस्य सर्वशः सर्वैः प्रकारैः सर्वलीलारसमाप्नोतीति वदन्त्युक्तरीत्यैव लीलायां स्थितिमाहेत्यर्थः । अतो वस्त्वे
वेदमलौकिकमीदृशमिति मन्तव्यं वैदिकैरिति भावः । अलौकिकेर्थे १५ लौकिकरीत्यनुसरणं न युक्तं किं त्वलौकिकरीत्यनुसरणमेव युक्तमिति हिशब्देन द्योत्यते । एतन रसो वै सः ( तै. २१७ ) इति श्रुतेलीलाविशिष्ट एव प्रभुस्तथेति तादृश एव परमफलमिति ज्ञापितं भवति । ४।४।१९ ॥
__ दर्शयतश्चैवं प्रत्यक्षानुमाने ॥४॥४॥२०॥
न च लौकिकयुक्तिविरोधोत्र बाधकत्वेन मन्तव्यः किंतु साधकत्वेन। २० यतः प्रत्यक्षानुमाने श्रुतिस्मृती अपि लौकिकयुक्त्यप्रसारणालौकिके भगवत्संबन्धिन्यर्थेन्यथाभावनं निषेधति । नैषा तर्केण मतिरापनेया ( क. १।२।९ ) । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च । (श्वे. ६।८) अलौकिकास्तु ये भावा न तांस्तकेण योजयेत् (म. भा. भी. ५।१२)। श्रीभागवते च-न हि विरोध उभयं भवत्यपरिगणितगुणगण ईश्वरेनवगाह्यमाहात्म्येर्वाचीन विकल्पवितर्कविचारप्रमाणाभासकुतर्क