________________
३५९
५ जगद्यापाराधिकरणम्।
[अ. १. स. २१
शास्त्रकलिलान्तःकरणाशयदुरवग्रहवादिनां विवादानवसर ( भा. ६।९। ३६) इत्यादिवाक्यैरचिन्त्यानन्तशक्तिमत्त्वेन भगवत्स्वरूपस्यैव परमफलत्वं प्रदर्श्यते। किंच। ता वां वास्तून्युष्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः।
अत्राह तदुरुगायस्य वृष्णः परमं पदमवभाति भूरि (ऋ.सं.२।२।२४ ) इति ५ ऋग्वेदे पठ्यते । किंचित्पाठभेदेन यजुःशाखायामपि । ता तानि वास्तूनि वां गोपीमाधवयोः संबन्धीनि गमध्य प्रसादत्वेन प्राप्तुमुष्मसि कामयामहे तानि कानीत्याकाङ्क्षायां गूढाभिसंधिमुद्घाटयति यत्र श्रीगोकुले गावो भूरिशृङ्गा बहुशृङ्गा रुरुपभृतयो वसन्तीति शेषः । ग्राम्यारण्यपशूपलक्षणा
र्थमुभयोरेव ग्रहणम् । अत्राह भूमावेव तदुरुगायस्य बहुगीयमानस्य वृष्णः १० भक्तेषु कामान् वर्षतीति वृषा तस्य पदं स्थानं वैकुण्ठं ततोपि परममधि
कमत्र विचित्रलीलाकरणात् । भूरि यमुनापुलिननिकुञ्जगोवर्धनादिरूपत्वेन बहुरूपम् । तथा च तत्रत्यानि तानि कामयामह इति वाक्यार्थः संपद्यते! एतेन लीलासंबन्धिवस्तूनां यत्र फलत्वेन बहुरूपप्रार्थनं तत्र तल्लीलाकर्तुः
परमफलत्वे किं वाच्यमित्याशयो ज्ञाप्यते । अथ ह वाव तव महिमामत१५ समुद्रविप्रषा सकृल्लीढया स्वमनसि निष्यन्दमानानवरतसुखेन विस्मारितदृष्टश्रुतसुखलेशाभासाः परमभागवताः (भा. ६।९।३९) इति श्रीभागवते । एतेनापि कैमुतिकन्यायेन प्रभारेव स्वतः पुरुषार्थत्वं ज्ञाप्यते । फलप्रकरणत्वात्तदेवाचार्यतात्पर्यविषय इति ज्ञायते ॥ ४।४।२० ॥
___ भोगमात्रसाम्यलिङ्गाच ॥ ४।४।२१ ॥ २. इतोपि हेतोः पुरुषोत्तमस्वरूपमेव परमं फलमिति ज्ञायते । यतः . सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता (ते. २।१ ) इति श्रुतौ
भक्तसाम्यमुच्यते । तच्च पुरुषोत्तम एव संभवति । यतः सख्यं दत्त्वा तत्कृतात्मनिवेदनमङ्गीकुर्वन्नतिकरुणः स्वस्वरूपानन्दमनुभावयंस्तं प्रधानी
करोति । अन्यथा भक्तोनुभवितुं न शक्नुयात् । युक्तं चैतत् । प्राप्तं फलं २५ स्वाधीनं भवत्येवान्यथा फलत्वमेव न स्यात् । तथा चास्माल्लिङ्गादपि
21-M om. श्रुतौ after इति ।