________________
३६०
म. पा. सू. २१] अणुभाष्यम् । प्रभारेव परमफलत्वं सिध्यति । न तत्समश्चाभ्यधिकश्च दृश्यते ( श्वे. ६।८) इति श्रुतिविरोधपरिहाराय मात्रपदम् । न चात्र कामभोगस्य फलत्वं शङ्कनीयम् । आप्नोति परमित्येतद्व्याकृतिरूपत्वात् स्वरूपानुभवरूपत्वाद् भोगस्य । अनुभूयमानस्यैव हि सुखस्य लोके पुरुषार्थत्वोक्तेः ५॥ ४।४।२१॥
___ एवं भगवतः स्वतः पुरुषार्थरूपत्वमुक्त्वा कर्मफलभोगानन्तरमावृत्तिवदत्राप्यावृत्तिर्भविष्यतीत्याशङ्कानिरासायोत्तरं पठति ।
अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥ ४।४।२२ ॥
अनावृत्तिभक्तानां ज्ञानिनां चोच्यते । तत्र मानं शब्दः । सच .. तयोर्ध्वमायन्नमृतत्वमेति (छां. ८।६।६) । न तेषां पुनरावृत्तिरेतेन
प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते (छां. ४।१५।६)। ब्रह्मलोकमभिसंपद्यते । न च पुनरावर्तते ( छां. ८।१५।१ ) इत्यादिरूपस्तु ज्ञानिनां तामाह । न हि भक्तानां नाड्यादिप्रयुक्तममृतत्वम् । तस्मान्म
द्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो १५ भवेदिह ( भा. ११।२०।३१ ) इत्यादिवाक्येभ्यः। किंतु यमेवेति श्रुते
वरणमात्रलभ्यः पुरुषोत्तमः । एवं सति ब्रह्मविदाप्नोति परम् (ते. २।१ ) इति श्रुतेर्विरोधपरिहारपूर्वकोक्तव्याख्यानरीत्या भक्तस्य परं ब्रह्म प्राप्तस्य निर्दोषत्वादावृत्तिहेत्वभावात् प्रपञ्चेनावृत्तिः संभवति । तादृशं प्रतीश्वरे
च्छापि न तथा भवितुमर्हति । ये दारागारपुत्राप्तप्राणान् वित्तमिमं परम् । २० हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे ( भा. ९।४।६५ ) इति
भगवद्वाक्यात् परप्राप्तिरूपत्वाच्च भोगस्य न नाशसंभावना । किंच यत्रैकस्यैव भक्तस्य देशकालभेदेनानेकविधलीलासंबन्धित्वेपि तत्तल्लीलासंबन्धित्वमनश्वरमुच्यते तत्र सर्वथा तदभावः कथं वक्तुं शक्यो
ब्रह्मणापि। अपरं च । कालसाध्यो हि नश्वरः स्याद् न हि पुरुषोत्तमे २५ कालः प्रभवितुं शक्नोति । न यत्र कालोनिमिषां परः प्रभुः। (भा.२।२।१७)