________________
३६१
५ जगद्यापाराधिकरणम् । [अ. पा. सू. २१
इत्यादिवाक्येभ्यः । तथा च ज्ञानमार्गीयभक्तिमार्गीययोरनावृत्तौ तुल्यत्वेपि फलप्राप्तौ वैलक्षण्यात् । पूर्ववाक्येन भक्तानामाहानावृत्तिमुत्तरवाक्येन ज्ञानिनामिति ज्ञायते । न च फलप्रकरणान्तेनावृत्त्युक्तेः संसाराभाव एव जीवस्य परमं फलमित्याचार्याभिप्रायो ज्ञायत इति ५ वाच्यम् । ब्रह्मविदः परप्राप्तिं फलत्वेनोक्त्वा तत्स्वरूपस्य सर्वकामभोगत्वेन श्रुत्या निरूपणात् स च स्वस्वाधिकारानुसारेण निवेदितार्थाङ्गीकाररूप एवेति ज्ञेयम् । तेन स एव परमं फलमनावृत्तिस्त्वार्थिकी । परं त्वावृत्तौ संभवत्यां परमफलत्वं नोपपद्यत इति ज्ञानदुर्बलशङ्कानिरासायेय
मुक्ता। पुष्टिमार्गीयभक्तविशेषप्रवर्तकनिवर्तकवेणुशब्दाद्भगवन्निकटगतावना१० वृत्तिः पूर्वेणोक्ता। मर्यादामार्गीयाणां वेदरूपाच्छन्दात्तदुक्तसाधनादनावृत्तिं द्वितीयेनेत्यपि तात्पर्यविषयः श्लिष्टोर्थो ज्ञेयः । तथा सति परमफलमये स्वत एव भावीति भाव इत्यलं विस्तरेण ॥ ४।४।२२ ॥ ५॥
जानीत परमं तत्त्वं यशोदोत्सङ्गलालितम् । तदन्यदिति ये प्राहुरासुरांस्तानहो बुधाः ॥ ५८ ॥ नानामतध्वान्तविनाशनक्षमो वेदान्तहृत्पद्मविकासने पटुः । आविष्कृतोयं भुवि भाष्यभास्करो मुधा बुधा धावत नान्यवर्त्मसु ॥ ५९ ॥ पुरन्दरमदोद्भवप्रचुरदृष्टिसंपीडितस्वकीयवरगोकुलावनपरायणो लीलया । स्मितामृतसुदृष्टिभिः परिपुपोष तान्यो गिरि दधार च स एव हि श्रुतिशिरःसु संराजते ॥६० ॥
१५
15- नानामतेत्यादिश्लोकत्रयं M. A. पुस्तकयो स्ति (ग्रन्थशरीरे ) ग्रन्थ
समाप्त्यनन्तरं तु M. पुस्तके श्लोकद्वयं A पुस्तके श्लोकत्रयं च वर्तते । प्रकाशव्याख्याकता तु व्याख्याताः सर्वे श्लोकाः।
D पुस्तकेमि ग्रन्थावहिरेवेमौ श्लोकी। 18-C reads सिद्धान्त for हत्या । - r६ [ अणुभाष्य ]