________________
अ.
पा. ४ सू.१३ ]
अणुभाष्यम् ।
श्रीकृष्णकृपयैवायं सिद्धान्तो हृदि भासते । तेनाधिकं वरीवर्ति न वक्तव्यं हरेर्नृणाम् ॥ ६१ ॥ भाष्यपुष्पाञ्जलिः श्रीमदाचार्यचरणाम्बुजे । निवेदितस्तेन तुष्टा भवन्तु मयि ते सदा ।। ६२ ।
३६२
इति श्रीमद्वेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाष्ये चतुर्थाध्यायस्य चतुर्थः पादः ॥ ४४ ॥ समाप्तश्चतुर्थोध्यायः ॥