SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ श्रीमदल्लभाचार्यकारिकाः । ← साङ्गनेध्येयस्तथा ज्ञेयो वेदः शब्दाश्च बोधकाः ॥ निःसंदिग्धं तदर्थाश्च लोकवद्वयाकृतेः स्फुटाः ॥ अलौकिक हि वेदार्थो न युक्त्या प्रतिपद्यते ॥ तपसा वेदयुक्त्या तु प्रसादात्परमात्मनः ।। संदेहवारकं शास्त्रं बुद्धिदोषात्तदुद्भवः ॥ विरूद्धशास्त्र संभेदादङ्गैश्वाशक्य निश्चयः ॥ तस्मात्सूत्रानुसारेण कर्तव्यः सर्वनिर्णयः ॥ अन्यथा भ्रश्यते स्वार्थान्मध्यमश्च तथादिमः ॥ असंदिग्धेपि वेदार्थे स्थूणाखननवन्मतः || मीमांसानिर्णयः प्राज्ञे दुर्बुद्धेस्तु ततो द्वयम् ॥ संदेहवारकं शास्त्रं वेदप्रामाण्यवादिनाम् || क्रियाशक्तिज्ञानशक्ती संदिते परस्थिते । उत्पत्तिस्थितिनाशानां जगतः कर्तु वै बृहत् ॥ वेदेन बोधितं तद्धि नान्यथा भवितुं क्षमम् ॥ नहि श्रुतिविरोधोस्ति कल्पोपि न विरुध्यते । सर्वभावसमर्थत्वादचिन्त्यैश्वर्यवद बृहत् || साधनं च फलं चैव सर्वस्याह श्रुतिः स्फुटम् ॥ न वर्तयितुं शक्या तथा चेन्नरको न हि ॥ प्रवर्तकस्तु सर्वत्र सर्वात्मा हरिरेव हि ।। यज्ञ एव हि पूर्वत्र बोध्यते स्वर्गसिद्धये ॥ सिद्ध एव हि सर्वत्र वेदार्थो वेदवादिनाम् | मन्त्राणां कर्मणां चैव दर्शनश्रवणाच्छ्रुतौ ॥ कृतिश्च सिद्धतुल्यत्वं वेदः स्वार्थे च संमतः ॥ पृ. १ २ २ ३ ३ ३ १३ १३ १४ १४ १४ १४ १४
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy