________________
श्रीमद्वल्लभाचार्याणा
एकस्यैव ममांशस्य जीवस्यैव महामते ॥ बन्धोस्याविद्ययानादिविद्यया च तथेतरः ।। ज्ञापनार्थे प्रमाणानि संनिकर्षादिमार्गतः ॥ सर्वथाविषयेवाच्येव्यवहार्ये कुतः प्रमा॥ एवंविचारचातुर्यवद्भिः सद्भिव्रजाधिपे॥ आनन्दमयतानन्दसंदोहायावधार्यते ।। पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः॥ अमृतं क्षेममभयं त्रिमूर्नोधायि मूर्धसु ॥ संदेहवारकं शास्त्रं पदशक्त्या तु निर्णयः॥ जीवादुत्कर्षशब्देन द्वयोर्वाक्यपि न क्षतिः ॥ बाधकानां बलिष्ठत्वात्साधकानामभावतः ॥ आधारधर्मा बाध्येरनिति पादोभिधीयते ॥ यस्मिन्नित्यादिवाक्ये च वाक्यार्थः सर्वबाधितः ॥ अर्थात्प्रकरणालिङ्गादिति पूर्व विचार्यते ॥ ऋषीणां पूर्वचरितस्मरणं स्मृतिरुच्यते ॥ कठवल्लीविचारेण निश्चिता ह्यधिकारिणः ॥ वाक्यान्तरं च तत्रत्यं चिन्त्यते प्रलयावधि ॥ ब्रह्मधर्माश्च ये केचित्सिद्धा युक्त्यापि साधिताः ॥ निर्णायकास्ततोप्यन्ये चत्वारोत्र निरूपिताः ।। संदिग्धानां पदार्थानां पौर्वापर्येण निर्णयः॥ न तु संदिग्धवाक्येन सर्वव्याकुलतोचिता ॥ जीवप्रकरणं ह्येतन्मुक्त्युपायोस्य रूप्यते ॥ योग्यं शरीरमारुह्य गच्छेदिति हरेः पदम् ॥ अनेकरूढिशब्दानां वाच्यं ब्रह्मैव नापरम् ॥ शक्तितश्चेत्तथा ब्रूयुस्ते सन्यागोबहिष्कृताः॥ भ्रान्तिमूलतया सर्वसमयानामयुक्तितः ॥ ' न तद्विरोधाद्वचनं वैदिकं शङ्कन्यतां व्रजेत् ।।
७३
९१
९५
१०१
१०६
Mora.orowonomom
१०२
१०२