Book Title: Anubhashyam
Author(s): Vallabhacharya, Shridhar T Pathak
Publisher: Shridhar T Pathak

View full book text
Previous | Next

Page 435
________________ ३ तत्त्वभावाधिकरणम्। [अ. पा. 'धू. १४ भावे जाग्रदत् ॥४॥४॥१४॥ लौकिकवद्भासमाने लीलापदार्थे यदर्शनं भक्तानां तत्तु भावे विषये विद्यमाने सति भवति । अत्र दृष्टान्तमाह । जाग्रदत् । यथा मोहाभाववतः पुंसः सत एवार्थस्य दर्शनं तथेति । एताभ्यां सूत्राभ्यामेतदुक्तं भवति । ५ सोश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चिता ( तै. २।१) इति श्रुत्या भक्तकामपूरणाय भगवान् लीलां करोतीति गम्यते । यद्दर्शनश्रवणस्मरणैर्भक्तानां दुःखं भवति तादृशीमपि तां करोतीति श्रूयते । यथा सौभयुद्धे मोहवचनानि । हस्तादायुधच्युतिः । प्रभासीयलीला च । उक्तरीत्या सोचत इति श्रुत्या परब्रह्मत्वमवगम्यते । उक्तलीलया तद्वै१० परीत्यं च । एवं सत्येकस्या वास्तवत्वमन्यस्या अवास्तवत्वं वाच्यम् । ते ते धामान्युष्मसि ( तै. सं. १।३।६।१ ) विष्णोः कर्माणि पश्यत (तै. सं. ११३।६।२ ) तद्विष्णोः परमं पदम् (तै. सं. १।३।६।२ ) ताद्विप्रासो विपन्यवः ( ऋ. सं. १।२२।२१ । इत्यादिश्रुतिभिः । सहस्रशीर्ष देवं विश्वाक्षं विश्वशंभुवम् । विश्वं नारायणं देवमक्षरं परमं पदम् । १५ विश्वतः परमं नित्यं विश्वं नारायण हरिम् । विश्वमेवेदं पुरुषस्तद्विश्व मुपजीवति । पतिं विश्वस्यात्मेश्वर५ शाश्वतं शिवमच्युतम् (म. ना.१३।१) इत्यादिभिश्च शुद्धब्रह्मणस्तद्विपरीतदर्शनेवश्यं हेतुर्वांच्यः । स त्वासुरव्यामोहनमेवेति पूर्वसूत्रेणापपादितः । भक्तभ्यः स्वरूपानन्ददानाय-लोकवत्त लीलाकैवल्यम् (ब. सू. २।१।३३ ) इति न्यायन या लीलाः करोति २० यथा रिङ्गणादिलीला भगवतो नैसर्गिकधर्मरूपानन्दात्मकत्वेन विद्यमाना एव ता भक्ताः पश्यन्तीति द्वितीयसूत्रेणोक्तम् । अत एव लीलाया 'अनेकरूपत्वाद् ब्रह्मणश्च श्रुतौ सैन्धवदृष्टान्तेनैकरसत्वनिरूपणाच्छद्धब्रह्मधर्मत्वं न संभवतीति शङ्कानिरासाय कैवल्यमित्युक्तम् । साक्षी चेता केवलो निर्गुणश्च (श्वे. ६।११) इत्यादि६५ श्रुतिषु यान्यधर्मराहित्यलक्षणा केवलतोक्ता सा लीलात्मिकव लीलाविशिष्टमवं शुद्धं परं ब्रह्म न कदाचित्तद्रहितमित्यर्थः पर्यवस्थति । तेन स्वरूपात्मकत्वं लीलायाः पर्यबस्थति तेन च नित्यत्वम् । __• ५ [ अणुभाष्य ]

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501