Book Title: Anandadidas Uvasagkathao
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan
View full book text
________________
जून २००९
३१
ति संवहनं क्षेत्रादिभ्यस्तृण-काष्ठ-धान्यादेगुहादावानयनं, तत्प्रयोजनानि सांवाहनिकानि । मुत्तूण० गाथा (७३) 'गंधकासाइयं' ति गन्धप्रधाना कषायेण रक्ता शाटिका गन्धकाषायी । 'अल्लमहु०' गाहा । (७४) - 'खीरामलयं ति अबद्धाऽस्थिकं क्षीरमिव मधुरं वा यदाऽऽमलकं तत् क्षीरामलकम् । "तिल्लं सयपाग'० गाहा (७५) - सयपाग - सहस्सपागं' त्ति द्रव्यशतस्य क्वाथशतेन सह यत् पच्यते कार्षापणशतेन वा तत् शतपाकं, एवं सहस्रपाकम् । 'गंधट्टयं' ति गन्धद्रव्यैरुपल-कुष्ठादिभिर्युक्तोऽदृश्चूर्णो गन्धाट्टस्तम् । अट्ठहि गाहा (७६) 'उटिअघडिएहिं' ति उट्टिका महन्मृन्मयभाण्ड, तत्पूरणाय घटा उचितप्रमाणा नाऽतिलघवो नाऽतिमहान्तः । 'खोमजुअलं' ति कार्पासिकवस्त्रयुगलं । कप्पूर०' गाहा (७७) 'एगं च सुद्धपउमं' ति कुसुमान्तरवियुतं पुण्डरीकं वा शुद्धं पद्मम्, मालतीमाला जातिपुष्पदाम । मटुं० गाहा (७८) 'मटुं कन्निज्जजुगं' ति मष्टं अचित्रवत्कर्णाभरणम् । भोयण० गाहा (७९) 'कट्ठपेज्जयं ति काष्ठपेया मुद्गादियूषः, घृत-तिल-तन्दुलएला वा । कलसूय० गाहा (८०) १ 'कलसूय'त्ति कलायश्चणकाकारो धान्यविशेषः उपलक्षणत्वात् मुद्-मोषास्तेषां सूपः । चुच्चुय० गाहा (८१) चूचुकादयः शाका लोकप्रसिद्धाः, 'पालक्का माहुरयं' ति पालक्का वल्लीविशेषः, माहुरयं अनाम्लरसशालनकं । आगासोदग० गाहा (८२) पंचसुगंधियं' ति एभिः पञ्चभिः-एला-लवङ्ग-कर्पूर-कक्कोल-जातीफललक्षणैः, सुगन्धिभिर्द्रव्यैरभिसिक्तं' पञ्चसौगन्धिकम् ।।
कुण्डकौलिककथायां किञ्चिल्लिख्यते - अथाऽपराह्नसमयेऽशोकवाटिकायां प्रतिपन्नश्रीमन्महावीरधर्मप्रतिज्ञं कुण्डकौलिक-श्रमणोपासकं कश्चिन्मिथ्याष्टिर्गोसालकमतानुयायी देवो गगनस्थितः प्राह, प्रवरा [१६७] प्रशस्या गोशालकस्य मंखलिपुत्रस्य धर्मप्रज्ञप्तिधर्मप्ररूपणा । कुत इत्याह - यस्मान्नो नैव 'उत्थानं' = उपविष्टस्य ऊर्वीभवनं, 'कर्म' = गमनागमनादिकं, 'बलं' शारीरं वीर्य, जीवप्रभवं वा । पृच्छ्यते वा-नो नैव पुरुषकारश्च पराक्रमश्च-पुरुषकारपराक्रम समाहारः, तस्य योगः सम्बन्धः जीवानामिति शेषः वर्तते । कोऽपि कश्चिदपि । तत्र पुरुषकारः पुरुषाभिमानः, स एव सम्पादितस्वप्रयोजनः पराक्रमः । तथा सर्वेऽपि भावा यत् = यस्मात्, वर्णिताः = प्रतिपादिताः, गोशालकमते-यैर्यथा भवितव्यं ते तथैव भवन्ति - न पुरुषकारबलादन्यथा कर्तुं शक्यन्ते इति । "न भाविनोऽस्ति नाशः', १ । तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 29 30 31 32 33 34