Book Title: Amar Kosh
Author(s): Chintamani Shastri
Publisher: Government Central Book Depo
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३३४
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सटीकामरकोशस्य
[ नानार्थवर्ग:
२०१ ॥
और्वानले ऽपि पातालं चैलं वस्त्रे ऽधमे त्रिषु ॥ कुकूलं शंकुभिः कीर्णे श्वभ्रे ना तु तुषानले || निर्णीते केवलमिति त्रिलिंगं त्वेककृत्स्नयोः ॥ २०२ ॥ पर्या शिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु ॥ प्रवालमंकुरे ऽप्यस्त्री त्रिषु स्थूलं जडे ऽपि च ॥ २०३॥ करालो दंतुरे तुंगे चारौ दक्षे च पेशलः ॥ मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः ॥ २०४ ॥ इति लताः ॥ वदावौ वनारण्यवन्ही जन्महरौ भवौ ॥ मंत्री सहायः सचिवौ पतिशाखिनरा धवाः ॥ २०५ ॥ अवयः शैलमेषार्का आज्ञाव्हानाध्वरा हवाः ॥
"
“ विवरे पातालम् ।" पातालं नागलोके स्याद्विवरे वाडवानले । वस्त्रे चैलं क्लीबं अधमे त्रिषु । स्त्रीत्वे तु चैली । “ चेलमित्यपि पाठः ॥ २०९ ॥ शंकुभिः कीर्णे hi व गर्ते कुकूलम् । तुषाग्नौ कुकूलः । निर्णीते निश्चिते यथा । केवलं मूर्खः । एकस्मिन्यथा । केवलोऽयं व्रजति । कृत्स्ने यथा । केवला भिक्षवः । स्त्रीलिंगे केवली । “ केवलः कुहने पुमानिति मेदिनी " २०२ || पर्याप्तिः सामर्थ्यं । शिक्षिते कुशलं त्रिषु । यथा कुशला कुलवधूः । प्रवालो ऽस्त्री किसलयं वीणा दंडे च विद्रुम इति मेदिनी । स्थूलं पीवरे ऽपि त्रिषु । “स्थूलं कूटे ऽथ निष्प्रज्ञे पीवरे चान्यलिंगक इति मेदिनी " ॥ २०३ ॥ दंतुरे उन्नतदंतयुक्ते । यथा दंष्ट्राकरालः । तुंगे उन्नते । " करालो दंतुरे तुंगे भीषणे चाभिधेयवत् । स सर्जरसतैले ना क्लीबं कृष्णकुठेरक इति मेदिनी ।” चारुदक्षयोः पेशलः । “बालो ऽज्ञे ऽश्वेभपुच्छयोः । शिशौ हीबेरकचयोरिति हैमः ।" सतृष्णः साकांक्षः || २०४ || इति लांताः || अथ वांतानाह । वनं काननम् । अरण्यवन्हिः वनाग्निः । तत्र वांतौ दवदावौ । भवः क्षेमे च संसारे सत्तायां प्राप्तिजन्मनोरिति मेदिनी । मंत्री प्रधानम् । सहायः सखा एतयोरर्थे सचिव शब्दः । पतिर्भर्ता । शाखी वृक्षभेदः । नरो मनुष्यः एते धवाः । “धवो धूर्ते नरे पतौ । द्रुभेद इति हैमः " ॥ २०५ ॥ “ अविर्नाथे रवौ मेषे शैले मूषिककंबल इति मेदिनी । ” आज्ञादयस्त्रयो हवसंज्ञाः । आव्हानं हूतिः । अभ्बरो यज्ञः ।
For Private And Personal

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463