Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore

View full book text
Previous | Next

Page 9
________________ ॥ श्री:॥ निवेदना। द्वितीयमिदं संस्करणं राजानकश्रीरुय्यककृतेरलङ्कारसूत्रस्य, यत् समुद्रबन्धव्याख्यानेन सनाथया श्रीमखुकप्रणीतया अलङ्कारसर्वस्वाख्यया वृत्त्योपबृंहितमितः कार्यालयाद् अनन्तशयनसंस्कृतग्रन्थावल्याश्चत्वारिंशो ग्रन्थः प्राक् प्राकाश्यत । अलङ्कारसूत्रं नाम सुप्रसिद्धमेकं वामनाचार्यस्य काव्यालङ्कारसूत्रम् , अन्यच्च केशवमिश्रीयस्यालङ्कारशेखरस्य मूलभूतं शौद्धोदनिमुनिविरचितं कारिकात्मकम् अलङ्कारविद्यासूत्रम् , * इदं तु प्रस्तुतं श्रीरुय्यकीयं तृतीयम् । अस्य चैवं प्रकाशनेन निखिलसाहित्यज्ञसुचिरपरिचितः कश्चिदनभिनवो वृत्तान्तः सुदूरमपसृतः, यः श्रीविद्याचक्रवर्तिदिशा सूत्रवृत्त्युभयात्मिका अलङ्कारसर्वस्वाभिधाना कृतिः श्रीरुय्यकस्यैवेति, सूत्रवृत्तिभेद एव तत्र नास्तीत्यपि च । तथाहि -श्रीकण्ठचरितमहाकाव्यस्य पञ्चविंशे सर्गे, "तं श्रीरुय्यकमालोक्य स प्रियं गुरुमग्रहीत् । सौहार्दप्रश्रयरसस्रोतःसम्भेदमज्जनम् ॥” (श्लो० ३०). इति रुय्यकमात्मनो गुरुं कथयता, प्रस्तुतग्रन्थस्य मुखे “गुर्वलङ्कारसूत्राणां वृत्त्या तात्पर्यमुच्यते” इति गुरो रुय्यकस्य अलङ्कारसूत्राणां वृत्त्या (अनवगतपदार्थवि रणन) तात्पर्यवचनं प्रतिजानानेन, ग्रन्थान्ते "हीत मख़ुको वितेने काश्मीरक्षितिपसान्धिविग्रहिकः । सुकविमुखालङ्कारं तदिदमलङ्कारसर्वस्वम् ॥" * मम्मटभट्टविरचितकाव्यप्रकाशस्थानामलङ्कारकारिकाणां सूत्रत्वेन व्यवहारस्तु केवलमालङ्कारिकनिकायप्रसिद्धः । श्रीविद्याचक्रवर्तिना किल स्वकृतायां सर्वस्वसञ्जीवन्याख्यायां व्याख्याया "रुचकाचार्योपज्ञे सेयमलङ्कारसर्वस्वे । __ सञ्जीवनीति टीका श्रीविद्याचक्रवर्तिना क्रियते ॥" इतिः अन्ते "इत्थं भूना रुचकवचसां विस्तर: कर्कशोऽयं टीकास्माभिः समुपरचिता तेन सञ्जीवनीयम् ।" इति चालङ्कारसर्वस्वं रुचककृतमङ्गीक्रियते । रुचकशब्दोऽयं रुय्यकस्य देशीयशब्दस्य प्रकृतिरिति स्वीकारे 'कृतिस्तत्रभवद्राजानकरुय्यकस्ये'ति काव्यमालाप्रकाशितपुस्तकादृतेन वर्मना रुय्यक एवालङ्कारसर्वस्वकर्तेति प्रतिपादितप्रायम् । मादौ

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 280