Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore
View full book text
________________
इति ग्रन्थकर्तृनामधेये व्यपदिश्योपसंहरता च श्रीमङ्खकेनैव स्वगुरू रुय्यकः तद्द्मन्थोऽलङ्कारसूत्रव्यपदेश्यः स्वकृतिश्च तद्वृत्तिरलङ्कारसर्वस्वाभिधेयेत्ययमर्थः प्रत्यायितः ।
व्याख्यातुः समुद्रबन्धस्य दिशा तु काचिदियं पर्यालोचना स्थानं लभते । स हि स्वव्याचिख्यासितं ग्रन्थमलङ्कार सर्वस्वाभिधं तत्कतीरं च मङ्खकाख्यं कथयति । इदमलङ्कारलक्षणं मङ्खुकोपज्ञमाह च । यथा " कदाचिन्मखुकोप काव्यालङ्कारलक्षणम् । प्रदर्श्य रविवर्माणं प्रार्थयन्त विपश्चितः ॥ गम्भीरं नस्तितीषूणां मङ्खुकग्रन्थसागरम् । “बुधपरिषदलङ्कारो व्याख्यद लङ्कार सर्वस्वम् । "
-
इति ।
अथ च स एष गुर्वलङ्कारसूत्राणामिति पाठमभ्युपयन्नपि गुरुपदमाचार्यपरं न स्पष्टमाचष्टे । “गुर्वित्यनेन विवक्षितस्य तात्पर्यस्यावश्यवक्तव्यतां दर्शयतीति व्यङ्ग्यार्थमेव विशदयति । स्वव्याख्येयमलङ्कारसर्वस्वं प्रतिज्ञाय सूत्रगतमप्यंशं कचित् क्वचित् प्रतीकमुपादाय व्याचक्षाणः सूत्रवृत्ती उभे अपि अलङ्कारसर्वस्वनामन्यन्तर्भावयति च । यथा—
१. 'विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः ॥ ( सू० ३१), विशेषणसाम्यादित्यादि । अप्रस्तुतस्य गम्यत्व इत्यनेन सारूप्यनिमित्तमप्रस्तुतप्रशंसाभेदं व्यवच्छिनत्ति । '
'विरुद्धाभासत्वं विरोधः || ( सू० ४०) विरुद्धाभासत्वमिति । अविरुद्धत्वेऽपि विरुद्धवदवभासमानो विरुद्धाभासः, तस्य भावस्तत्त्वम् ।'
इति । किञ्च 'एवमेते शब्दार्थोभयालङ्काराः संक्षेपतः सूत्रिताः' (सू ८६) इत्युपसंहारसूत्रघटकं संक्षेपत इति पदं विवृण्वतीं वृत्तिं 'स्वकण्ठेनानुक्तिशङ्कानिरासाय सूत्रस्थस्य संक्षेपत इति पदस्यान्वयप्रदर्शनमुखेन व्याचष्टे' इत्यवतारयन् सूत्रवृत्त्योरेककर्तृकत्वमभिमन्यते । तदियता तन्मते अलङ्कारसर्वस्वं नाम सूत्रवृत्त्युभयात्मकं तत्कर्ता च श्रीमङ्खक इति ।
२.
०
पुनरुक्तवदाभासोदाहरणे (१५. पृष्ठे) 'उदाहरणं मखीये श्रीकण्ठस्तवे' इति तु अनुप्रासोदाहरणे (१८. पृष्ठे ) ' यथा मदीये श्रीकण्ठस्तवे'

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 280