Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore

View full book text
Previous | Next

Page 11
________________ इत्यस्यापभ्रंशो वा स्यात् उताहो ग्रन्थकर्तुः स्वनामग्रहणपुरःसरमप्युदाहरणप्रदर्शनं नासम्भवीत्यत्र द्योतकं वा भवेत् । अत्र तु पार्यन्तिको निश्चयःश्रीकण्ठचरितकाव्ये पञ्चविंशे सर्गे, " यत्कृतिष्ववधानेन मूर्धा कस्य न वीप्सया । सारस्वतरसावर्तवलनेनेव चेष्टते ॥ तं श्रीरुय्यक मज्जनम् ॥ इति मोक्तप्रकारेण रुय्यकप्रणीतानामितरासां कृतीनां प्रथमसंस्करणोपोद्वातोक्तरीत्या मङ्खीयानां साहित्यमीमांसानाटकमीमांसादीनां च ग्रन्थानामुपलब्धौ तद्विमर्शमुखप्रेक्षी प्रतीक्षितव्य इति मे मतिः । ग्रन्थकर्तुर्जीवितसमयादिकं तु पूर्वोपोद्धात एव यथावन्निरूपितं ह वितायते । इदमीयमलङ्कारस्वरूपनिरूपणमखिलान्यालङ्कारिकाचार्य मतप्रक्रियापरिचिन्तनफलायितमास्वादमात्रावशेषं सहृदयानामत्यर्थमभिनन्दनीयम् । इयती पुनरस्य प्रतिष्ठा अलङ्कारसूत्रस्य; यत् साहित्यचक्रवर्तिलौहित्यभट्टगोपालकविरचितायां काव्यप्रकाशविमर्शिन्यां साहित्यचूडामणावलङ्कारप्रकरणे प्रायः सर्वतः प्रमाणमिदमुद्घोप्यते । यथा १. उपमायाम् - -- - यत् सूत्रम् “ उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्व उपमा ।" (सू० ११). २. समासोक्तौ - यच्च सूत्रं "विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः” (सू ० ३१ ). इत्यादि । अस्मिंश्च द्वितीये संस्करणे प्रथमसंस्करणेऽदृष्टा काप्युद्धरणानुक्रमणी. के. साम्बशिवशास्त्री. सौकर्यकृते संयोजिता ॥ "" अनन्तशयनम्, ११०१ – १२ – २८.)

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 280