________________
इत्यस्यापभ्रंशो वा स्यात् उताहो ग्रन्थकर्तुः स्वनामग्रहणपुरःसरमप्युदाहरणप्रदर्शनं नासम्भवीत्यत्र द्योतकं वा भवेत् ।
अत्र तु पार्यन्तिको निश्चयःश्रीकण्ठचरितकाव्ये पञ्चविंशे सर्गे,
" यत्कृतिष्ववधानेन मूर्धा कस्य न वीप्सया । सारस्वतरसावर्तवलनेनेव चेष्टते ॥ तं श्रीरुय्यक
मज्जनम् ॥
इति मोक्तप्रकारेण रुय्यकप्रणीतानामितरासां कृतीनां प्रथमसंस्करणोपोद्वातोक्तरीत्या मङ्खीयानां साहित्यमीमांसानाटकमीमांसादीनां च ग्रन्थानामुपलब्धौ तद्विमर्शमुखप्रेक्षी प्रतीक्षितव्य इति मे मतिः ।
ग्रन्थकर्तुर्जीवितसमयादिकं तु पूर्वोपोद्धात एव यथावन्निरूपितं ह
वितायते ।
इदमीयमलङ्कारस्वरूपनिरूपणमखिलान्यालङ्कारिकाचार्य मतप्रक्रियापरिचिन्तनफलायितमास्वादमात्रावशेषं सहृदयानामत्यर्थमभिनन्दनीयम् ।
इयती पुनरस्य प्रतिष्ठा अलङ्कारसूत्रस्य; यत् साहित्यचक्रवर्तिलौहित्यभट्टगोपालकविरचितायां काव्यप्रकाशविमर्शिन्यां साहित्यचूडामणावलङ्कारप्रकरणे प्रायः सर्वतः प्रमाणमिदमुद्घोप्यते । यथा
१.
उपमायाम् -
--
- यत् सूत्रम् “ उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्व उपमा ।" (सू० ११).
२. समासोक्तौ - यच्च सूत्रं "विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः” (सू ० ३१ ). इत्यादि ।
अस्मिंश्च द्वितीये संस्करणे प्रथमसंस्करणेऽदृष्टा काप्युद्धरणानुक्रमणी.
के. साम्बशिवशास्त्री.
सौकर्यकृते संयोजिता ॥
""
अनन्तशयनम्, ११०१ – १२ – २८.)