Book Title: Agam Suttani Satikam Part 27 Dasvaikaalika
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 6
________________ नमो नमो निम्मलदंसणस्स पंचमगणधरश्रीसुधर्मा स्वामिने नमः | ४२ दशवैकालिक-मूलसूत्रं | सटीकं [तृतीयमूलसूत्रम् शय्यंभवसूरिविरचित मूलं+भद्रबाहुस्वामिरचितंनियुक्तिः (भाष्यगाथा ) हरिभद्रसूरिरचितावृत्तिः (उपोद्घात:नियुक्तिः ) जयति विजितान्यतेजाः सुरासुराधीशसेवितःश्रीमान्। विमलस्त्रासविरहितस्त्रिलोकचिन्तामणिर्वीरः ॥ वृ.इहार्थतोऽर्हत्प्रणीतस्य सूत्रतो गणधरोपनिबद्धपूर्वगतोद्धृतस्यशारीरमानसादिकटुकदुःखसंतानविनाशहेतोर्दशकालिकाभिधानस्य शास्त्रस्यातिसूक्ष्ममहार्थगोचररस्य व्याख्या प्रस्तूयतेतत्र प्रस्तुतार्थप्रचिकटयिषयैवेष्टदेवतानमस्कारद्वारेणाशेषविघ्नविनायकापोहसमर्थां परममङ्गलालयामिमां प्रतिज्ञागाथामाह नियुक्तिकारःनि.[१] सिद्धिगइमुवगयाणं कम्मविसुद्धाणसव्वसिद्धाणं। . नमिऊण दसकालियनिज्जुति कित्तइस्सामि। वृ.सिद्धिगतिमुपगतेभ्यो नत्वा दशकालिकनियुक्तिंकीर्तयिष्यामीति क्रिया। तत्रसिद्धयन्तिनिष्ठितार्था भवन्त्यस्यामिति सिद्धिः-लोकाग्रक्षेत्रलक्षणा, तथा चोक्तम् - "इह बोंदि चइत्ता णं, तत्थ गंतूण सिज्झइ" । गम्यत इति गतिः, कर्मसाधनः सिद्धिरेवगम्यमानत्वाद्गतिः सिद्धिगतिस्तामुपसामीप्येन गताः - प्राप्तास्तेभ्यः, सकललोकान्तक्षेत्रप्राप्तेभ्यइत्यर्थः, प्राकृतशैल्याचतुर्थ्यर्थे षष्ठी, यथोक्तम् - "छट्ठीविभत्तीए भण्णइ चउत्थी' । तत्र एकेन्द्रियाः पृथिव्यादयः सकर्मका अपि तदुपगमनमात्रमधिकृत्य यथोक्तस्वरूपा भवन्त्यत आह - 'कर्मविशुद्धेभ्यः' क्रियते इतिकर्म-ज्ञानावरणीयादिलक्षणंतेनविशुद्धा-वियुक्ताः कर्मविशुद्धाः- कर्मकलङ्करहिता इत्यर्थः, तेभ्यः कर्मविशुद्धेभ्यः । आह-एवं तर्हि वक्तव्य, न सिद्धिगतिमुपगतेभ्यः, अव्यभिचारात्, तथाहि-कर्म-विशुद्धाः सिद्धिगतिमुपगता एव भवन्ति, न, अनियतक्षेत्रविभागोपगतसिद्धप्रतिपादनपरदुर्नयनिरासार्थत्वादस्य,तथा चाहुरेके - "रागादिवासनामुक्तं, चित्तमेव निरामयम्। ___ सदाऽनियतदेशस्थं, सिद्ध इत्यभिधीयते॥ इत्यलं प्रसङ्गेन। तेच तीर्थादिवसिद्धभेदादनेकप्रकार भवन्ति, तथा चोक्तम् - "तित्थसिद्धा अतित्थसिद्धा तित्थगरसिद्धा अतित्थगरसिद्धा सयंबुद्धसिद्धा पत्तेयबुद्धसिद्धा बुद्धबोहियसिद्धा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 284